________________
66
Book II. THE WINNING OF FRIENDS;
Tale i: Mouse and two monks.
ष्टौष्ठपुटः पृष्टवान् । कतरस्तस्य संचरणमार्ग इति । आख्याते च तस्मिन्खातकर्म कर्तुमारब्धः । अहं चादावेव तयोरात्मगतमालापं श्रुत्वाहारमुत्सृज्य कौतुकपरो ऽवस्थित आसम् । यदा त्वसौ दुर्गान्वेषणं कर्तुमारब्धः । तदा मया ज्ञातम् । उपलब्धमनेन दुरात्मना मदीयविवरद्वारमिति । मयापि केनापि साधुना पूर्वस्थापितं 6 सुवर्णमाप्तमासीत् । तत्प्राधान्याच्चाहं शक्तिमन्तमात्मानं मन्ये ।
असावपि दुष्टो विवरानुसारात्तदुपलभ्य गृहीत्वा च धनं पुनरावसथं प्राप्ती जूटकर्णमब्रवीत् । इदं तस्य तद्ब्रह्महृदयम् । यस्यासौ • सामर्थ्यादशक्यमपि स्थानमुत्पतति । अर्धार्धं च विभज्य सुखासीनौ स्थितौ।
तं चाहमात्मनो ऽवसादं प्राप्याचिन्तयम् । कदाचिदिहस्थस्य 12 मे प्रदीपमुज्ज्वाल्यासंशयमासाद्य मां हन्युः । इति तस्मात्स्थाना
दन्यद्दर्गस्थानं कृतवान् । अन्ये च । ये ममानुचराः । त आगत्य मामब्रुवन् । भद्र हिरण्य । त्वत्समीपवर्तिनो वयमत्यन्तक्षुधार्ताः । 15 ग्रासमात्रमप्यस्माकं नास्ति । अस्तं गते ऽपि दिवसे न किंचिदस्माभिरासादितम् । तदर्हस्यद्यापि तावदस्मान्सतर्पयितुमिति । तथा नामेत्युक्त्वाहमावसथं तैः समं गतः । एकान्तावस्थितश्च तयोर्दु18 रात्मनोः पूर्वाख्याते शेषमालापमशृणवम् । अथ जूटकर्णस्तथैवाख्याने वंशं चालयति स्म । तेनाभिहितः । किमद्यापि निराकृते तस्मिन्मुहुर्मुहुश्चालयसि वंशम् । स्थीयताम् । अलमिति। यतोऽसा1 वाह । भद्र । एष ममापकारी मूषकः पुनः पुनरायाति । स विहस्याब्रवीत् । मा भैषी: । न किंचिदस्त्येतत् । यतः ।
भवत्यर्थेन बलवानर्थाद्भवति पण्डितः । ५ पश्येमं मूषकं पापं स्वजातिसमतां गतम् ॥ १ ॥