SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 67 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale i: Mouse and two monks. __ अपि च । यदस्योत्पतने शक्तिकारणम् । तदावयोरेव हस्तगतम्। अहं तु तथैव समर्थितवान् । सत्यमाहायम् । न ममाद्याङ्गुलक३ स्याप्युत्पतने शक्तिरस्तीति । शृणोमि चानुचराणां परस्परालापम् । आगच्छत । गच्छामः । नायमद्य तृणस्यापि कुब्जीकरणे समर्थः । एवमुक्त्वा पञ्चाशन्मात्रा गताः । पुनरपि पञ्चविंशतिः । दश पञ्च 6 चेति । अथान्ये द्वादशाष्टौ। अथावशिष्टौ द्वौ। तत्राप्येको ऽब्रवीत्। अयमात्मनो ऽप्युदरभरणे न समर्थः । किं पुनरन्येषाम् । इत्युक्त्वा निरपेक्षो ऽसावपि प्रायात् । ततो ऽहं परिचिन्त्यैतावदिति स्वमा9 लयं गतः। प्रभातसमये सर्व एव सपत्नसकाशं गताः । दरिद्रो ऽसाविति वदन्तः । तथा प्रवृत्तानामनुचराणामेको ऽपि न मत्सकाशमागच्छत् । पश्यामि च । मां दृष्ट्वा संमुखं त एव मत्सपत्नैः सह 12 परस्परं किलकिलायन्तो हस्तास्फालनैर्ममानुचराः संकीडन्ति स्म । चिन्तितं च मया । यथा । एवमेतत् । यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । 15 यस्यार्थाः स पुमाल्लोके यस्यार्थाः स च पण्डितः ॥ ५२ ॥ अपि च। अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । 18 विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ५३॥ त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । ॥ तमर्थवन्तं पुनराश्रयन्ते अर्थो हि लोके पुरुषस्य बन्धुः ॥ ५४॥ दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च । ५५ काले ऽप्युक्तं हितं वाक्यं न कश्चित्प्रतिपद्यते ॥ ५५ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy