________________
68
चण्डालश्च दरिद्रश्च द्वावेतौ सदृशौ मतौ । चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ ५६ ॥ अर्थेन परिहीणं तु नरमस्पृश्यतां गतम् । त्यजन्ति बान्धवाः सर्वे मृतं सत्त्वमिवासवः ॥ ५७ ॥ अर्थेन हीनः पुरुषस्त्यज्यते मित्रबान्धवैः। त्यक्तलोकक्रियादारः परासुरिव निष्प्रभः ॥ ५८ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्व शून्यं दरिद्रस्य ॥ ५९ ॥
" [ उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं
9
3
6
Book II. THE WINNING OF FRIENDS; Tale i: Mouse and two monks.
क्लिष्टो यावदहं चिरं मरणजं सेवे त्वदीयं सुखम् । इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशाने शवो
दारिद्र्यान्मरणं वरं सुखकरं ज्ञात्वा स तूष्णीं स्थितः ॥ ६० ॥] किमपरं भोः । न कश्चिदन्यः प्रतिवचनमपि ददाति । तानीन्द्रियाण्यविकलानि तदेव नाम
16 सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
शेते हकार इव संकुचिताखिलाङ्गः ॥ ६१ ॥
12
18
तत्प्रायशो लोके स्वरूपमीदृशम् । विनिपतितमार्यमपि जनं दृष्ट्वा धन्यन्धो मूकश्च भवति धनमदावलेपात् । तथा च ।
विलोचने चाविकले च वीक्षते
21
स्फुटा च वागस्ति न चापभाषणम् । अहो नृशंसैर्विभवैस्तथा कृतं
यथेश्वरो याचनयन्त्रतां गतः ॥ ६२ ॥