________________
69
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Tale i: Mouse and two monks.
तन्मादृशानां किं नाम तद्वरं स्यात् । यस्य स्यादीदृशः फलविपाकः । यत्सततं देहीति वक्ति । तत्सर्वथा धनहीनस्य ममाधुना ॐ नेह श्रेयः । उक्तं च ।
वसेन्मानाधिकं स्थानं मानहीनं न संवसेत् ।
मानहीनं सुरैः सार्धं विमानमपि वर्जयेत् ॥ ६३॥ 6 एवमुक्त्वाप्यहं पुनरप्येवमचिन्तयम् । किमर्थितां कस्यचित्करोमि । तदेतत्कष्टतरम् । यत्कारणम् ।
कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः । 9 तरोरप्यषरस्थस्य वरं जन्म न चार्थिनः ॥ ६४॥ कण्ठे गद्गदता स्वेदो मखे वैवर्ण्यवेपथू ।
म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ ६५ ॥ 12 तदर्थित्वमपि जघन्यम् ।
वैराग्याहरणं धियो ऽपहरणं मिथ्याविकल्पास्पदं पर्यायो मरणस्य दैन्यवसतिः शङ्कानिधानं परम् । 15 मूर्त लाघवमास्पदं च विपदां तेजोहरं मानिना
मर्थित्वं हि मनस्विनां न नरकात्पश्यामि वस्त्वन्तरम् ॥६६॥ अपि च। 18 निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभश्यते तेजसो निस्तेजाः परिभूयते परिभवानिर्वेदमागच्छति । निर्विणः शुचमेति शोकमनसो बुद्धिः परिभ्रश्यति 1 निर्धीकः क्षयमेत्यही निधनता सर्वापदामास्पदम् ॥६७॥ अपि च ।
वरमहिमुखे क्रोधाविष्टे करौ विनिवेशिती ॥ विषमपि वरं पीत्वा सुप्तं यमस्य निवेशने ।