________________
Book II. THE WINNING OF FRIENDS%3
Tale i: Mouse and two monks.
Tale;
गिरिवरतटादात्मा मुक्तो वरं शतधा गती न तु खलजनावाप्तरर्थः प्रियं कृतमात्मनः ॥ ६८॥ ७ वरं विभवहीनेन प्राणः संतर्पितो ऽनलः । नोपचारपरिभ्रष्टः कृपणो ऽभ्यर्थितो जनः ॥ ६९॥ अथैवं गते केनोपायेन जीवितं स्यात् । किं चौर्येण । तदपि परस्वादानं कष्टतरम् । यत्कारणम् ।
वरं युक्तं मौनं न च वचनमुक्तं यदनृतं वरं मृत्युः श्लाघ्यो न च परकलबाभिगमनम् । ७ वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरति
वरं भिक्षार्थित्वं न च परधनास्वादमसकृत् ॥ ७० ॥ तदर्थत्वे ऽपि हि पुरुषस्य ध्रुवो ऽवमानः । कथम् । 12 आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः ।
आशाहानिरिवार्थित्वं परासुत्वमिवापरम् ॥ ७१ ॥
अथ किं परपिण्डेनात्मानं यापयामि । कष्टं भोः । तदपि द्वि15 तीयं मृत्युद्वारम् ।
रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यज्जीवति तन्मरणं यन्मरणं सो ऽस्य विश्रामः ॥ ७२॥ 18 अपि च।
जातः कुले महति मानधनावलिप्तः संमाननाभ्युदयकाल इव प्रहर्षी। ॥ तच्छेषपिण्डमपि नाम नृपस्य भुङ्क्ते यः सारमेय इव कष्टतरं किमन्यत् ॥ ७३ ॥ आशाविप्लुतचेतसो ऽभिलषिताल्लाभादलाभो वर४ स्तस्यालाभनिराकृता हि तनुतामापद्यते प्रार्थना ।