________________
Book II. THE WINNING OF FRIENDS%B
Tale i: Mouse and two monks.
॥ कथा १॥ अस्ति दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् । तस्य • नातिदूरे परिव्राजकावसथः । तत्र परिवाड्जूटको नाम प्रतिवसति स्म । स भिक्षावेलायां तस्मान्नगरात्तीर्थभूत इति ब्राह्मणगृहेभ्यः सखण्डगुडदाडिमगर्भाणां स्निग्धद्रवपेशलानामन्नविशे6 षाणां भिक्षाभाजनं परिपूर्ण कृत्वा तमावसथमवगम्य यथाविधि व्रतकालं कृत्वा तत्र शेषमापोतके सुगुप्तं कृत्वा नागदन्तके स्थापयति । अहं सपरिजनस्तेन वर्ते । एवं भक्ष्यमाणे तस्मिन्सुप्रयत्न• स्थापिते ऽपि निर्विणः स्थानात्स्थानमुच्चैर्मत्प्रति भयात्संक्रमयति । तदप्यहमनायासेन प्राप्नोमि भक्षयामि च।। । अथैवं गच्छति काले कदाचित्तस्य परिव्राडूबुहत्स्फिग्नाम प्रा1. हुणक आगतः । स जूटकर्णस्तस्य स्वागताद्यपचारं कृत्वा कृतय
थोचितव्रतकालस्तस्मिन्नापोतके शेषं सुगुप्तं कृत्वा खलासीनः शय
नगतं बृहत्स्फिजमपृच्छत् । भवानितो मया वियुक्तः । तत आरभ्य 15 केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् ।
अथ कदाचिदहं महाकार्त्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जनसमूहदोषाद्भवता वियुक्तः । ततो ऽहं गङ्गाद्वारप्रया18 गवाराणस्यादिष्वनुकूलप्रतिकूलां जाह्नवीमनु पर्यटन् । किं ब
हुना । कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् । अर्धाख्याते च तस्मिञ्जूटकर्णः परिवानागदन्तोपश्लिष्टो मुहुर्मुहुर्जर्जरम॥ वादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितो बृहत्स्फिगाह ।
अहमादृतो भूत्वा भवतः कथयामि । भवतस्तु किमर्थमनादरः । तथा च।