Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
SK
काकोलूकीयं नाम तृतीयं तन्त्रम् ॥
A 197
अत इदमारभ्यते संधिविग्रहसंबद्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्थायमाद्यः श्लोकः ।
३ न विश्वसेत्पूर्वपराजितस्य शत्रोच मित्रत्वमुपागतस्य ।
दग्धां गुहां पश्यत घूकपूर्णा 6 काकप्रणीतेन हुताशनेन ॥१॥
A 199
A 198 अस्ति । कस्मिंश्चिद्वनोद्देशे महान्यग्रोधवृक्ष: स्निग्धबहलपर्णगुल्मच्छायया स्वागत
मिवाध्वगानां प्रयच्छति । तत्र मेघवर्णो नाम वायसः प्रतिवसति स्म काकसहस्र9 परिवारः । तस्य च शत्रुरपमर्दो नामोलकराज उलूकसहस्रपरिवारः । स वैरानुशयादुलूक उपलब्धदुर्गवृत्तान्तः कालबलशक्त्या महतोलूकसंघातेन तस्योपरि संनिपतितः । महच्च तेषां कदनं कृत्वापयातः । __12 अन्येधुश्च प्रभातसमये हतशेषान्भपचञ्चपक्षचरणानन्यांश्च समेत्य शिविरानुसारप्रविचयोपलब्धिं कृत्वा मन्त्रिभिः सार्ध मेघवर्णो मन्त्रयितुमारब्धः । प्रत्यक्षमेतन्ग्रहद्विशसनमस्माकं सपत्नापमर्देन कृतम् । दृष्टदुर्गमार्गो ऽसाववश्यमद्य रात्रौ लब्धाव
15 सरो ऽस्मदभावाय पुनरेष्यति । तदहीनकालमपायश्चिन्त्यतां तद्विघातायेति । A 200
अथ केचिदृद्धास्तमाहुः । साधुरसि । राजन् । गुणोपेतो ऽसि । यथाशास्त्रमनुवर्तितं भवता । यस्त्वमात्ययिके मन्त्रिपर्षदमेव पृच्छसि । इह हि शास्त्रे दृष्टा18 न्यष्टादश तीर्थानि राज्ञाम् । तद्यथा । मन्त्रिपुरोहितासनपालकयुवराजदौवारि
कान्तर्वशकशास्तृसमाहर्तृसंनिधातृप्रदेष्ट्रनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपर्षदध्यक्षदण्डिदुर्गान्तपालाटविका इति । तत्रादौ मन्त्रिग्रहणमवश्यं कार्यम् । पश्चान्मन्त्रि21 पर्षद्वहणमवश्यं क्रियत इति । यदा च राजा स्वास्थ्यं भजते । तदा दत्ताधिकारैः
सार्ध मन्त्रयेत् । यदा पुनरात्ययिकमरातिभिः समं महत् । तदा मन्त्रिपर्षदमाइय ब्रूयात् । तत्र यद्भूयिष्ठाः कार्यसिद्धिकरं ब्रूयुः । तत्कुर्यादिति । तन्मानिता वयमनेन ५ वचनेनेति । किंलिह हि मनुबृहस्पतिभृगुपराशरशालङ्कायनचाणक्यप्रभृतिभिरा

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164