Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
97
॥ कथा २ ॥
अस्ति । अराजके सर्वपक्षिणां चित्तमुत्पन्नम् । कतमं राजानं पक्षिणामभिषिञ्चाम इति । ततस्तेषां मतमुत्पन्नम् । उलूको ऽभिषिच्यतामिति । तस्य यथाविध्यभिषेकोचितद्रव्यसंभारं कृत्वा छत्त्रचामरव्यजनसिंहासनभद्रपीठक्षौमवासोनन्द्यावर्तादिनाभिषेकः • प्रारब्धः । अथ नभसा व्रजन्तमविज्ञातनामानं पक्षिणमपश्यन् । ते तु तं दृष्ट्वा स्तम्भिताभिषेकाः । अवश्यमयमपि समुदाये ऽभ्यन्तरीकर्तव्यः । यत्कारणम् । महदिदं पार्थिवं राजकार्यम् । पृष्टश्चा' सावागतः । भद्र ' किं तवाप्येतदभिरुचितम् । प्रजापालत्वं दिवान्धस्येति । असावाह । किमन्ये पक्षिण उत्सादं गताः । हंसकारण्डचक्रवाकक्रौञ्चमयूरकोकिलहारीतजीवजीवकादयः ' येनायमप्रसन्नदृष्टिरुलूको राज्ये ऽभिषिच्यते । अपि च । वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् ।
अक्रुद्धस्य मुखं पापं क्रुद्धः किं नु करिष्यति ॥ ४८ ॥ 15 स्वभावरौद्रमत्युग्रं क्षुद्रमप्रियवादिनम् । उलूकमभिषिञ्चध्वं न वः श्रेयो भविष्यति ॥ ४९ ॥ मोघं दृष्टिदिग्दाहं करोत्यपदेशक्षमश्च । उक्तं च ।
1
3
12
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ii Birds elect & king.
18
व्यपदेशे ऽपि सिद्धिः स्यादशक्तश्चेन्नराधिपः । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ५० ॥ अतः शेषाः पतत्रिण आहुः । कथं चैतत् । सो ऽब्रवीत् ।

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164