SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 97 ॥ कथा २ ॥ अस्ति । अराजके सर्वपक्षिणां चित्तमुत्पन्नम् । कतमं राजानं पक्षिणामभिषिञ्चाम इति । ततस्तेषां मतमुत्पन्नम् । उलूको ऽभिषिच्यतामिति । तस्य यथाविध्यभिषेकोचितद्रव्यसंभारं कृत्वा छत्त्रचामरव्यजनसिंहासनभद्रपीठक्षौमवासोनन्द्यावर्तादिनाभिषेकः • प्रारब्धः । अथ नभसा व्रजन्तमविज्ञातनामानं पक्षिणमपश्यन् । ते तु तं दृष्ट्वा स्तम्भिताभिषेकाः । अवश्यमयमपि समुदाये ऽभ्यन्तरीकर्तव्यः । यत्कारणम् । महदिदं पार्थिवं राजकार्यम् । पृष्टश्चा' सावागतः । भद्र ' किं तवाप्येतदभिरुचितम् । प्रजापालत्वं दिवान्धस्येति । असावाह । किमन्ये पक्षिण उत्सादं गताः । हंसकारण्डचक्रवाकक्रौञ्चमयूरकोकिलहारीतजीवजीवकादयः ' येनायमप्रसन्नदृष्टिरुलूको राज्ये ऽभिषिच्यते । अपि च । वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् । अक्रुद्धस्य मुखं पापं क्रुद्धः किं नु करिष्यति ॥ ४८ ॥ 15 स्वभावरौद्रमत्युग्रं क्षुद्रमप्रियवादिनम् । उलूकमभिषिञ्चध्वं न वः श्रेयो भविष्यति ॥ ४९ ॥ मोघं दृष्टिदिग्दाहं करोत्यपदेशक्षमश्च । उक्तं च । 1 3 12 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ii Birds elect & king. 18 व्यपदेशे ऽपि सिद्धिः स्यादशक्तश्चेन्नराधिपः । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ५० ॥ अतः शेषाः पतत्रिण आहुः । कथं चैतत् । सो ऽब्रवीत् ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy