________________
A 213
A 214
96
9
12
15
18
21
Book III.
THE WAR OF THE CROWS AND THE OWLS. Tale i: Ass in panther-skin.
Frame-story.
Frame-story.
पितृक्रमेण हितैषी । किंतु कौतूहलमुच्यताम् । कथं पुनरस्माकमुलूकानां वैरमिति ।
सो ऽब्रवीत् । भद्र । वाक्कृतात् ।
3
सुचिरं हि चरन्नित्यं ग्रीष्मे सस्यमबुद्धिमान् । द्वीपिचर्मप्रतिच्छन्नो वाक्कृताद्रासभो हतः ॥ ४७ ॥
सो ऽब्रवीत् । कथं चैतत् । चिरजीव्याह ।
• ॥ कथा १ ॥
अस्ति कस्यचिद्रजकस्य वस्त्रनयनातिभारपीडया गर्दभो ऽवसन्नः । स एवं चिन्तयामास । कष्टम् । न शोभनमापतितम् । मम कर्मव्याघातो मूल्यहानिश्च । अधुना कथं करणीयम् । अथवास्त्युपायः । रूपकत्रयेण द्वीपिचर्म लभ्यते । तेनावच्छाद्याहमेनं रात्रौ हरितसस्ये मोक्षयिष्यामि । तद्भक्षणादसंशयमल्पैरहोभिरयं बलवान्भविष्यति । तथा चानुष्ठिते भक्ष्यमाणेषु सस्येषु कार्षिकः स्वक्षेत्राणि रक्षितुमारब्धः । कदाचिच्च क्षेत्रमध्येनायातः स दृष्टः । द्वीप्ययम् । नष्टोऽस्मीति मत्वार्द्रकम्बलमुपरि दत्त्वोद्यतधनुष्पाणिः शनैः शनैरपक्रामितुमारब्धः । अथ गर्दभस्तं दृष्ट्वा गर्दभीयमिति निष्कृष्टायुः परं वेगमास्थायोपसर्पितुमारब्धः । असावपि शीघ्रतरवेगो धावति । गर्दभश्चैवमचिन्तयत् । कदाचिदियं द्वीपिचर्मव्यवस्थितशरीरं मां दृष्ट्वान्यत्रैवावगच्छेत् । अतो ऽहमस्याः स्वां प्रकृतिमास्थाय वाशितेन मनोह्लादनं करिष्यामि । इति वाशितुमारब्धः । तच्च श्रुत्वारक्षिपुरुषः सुनिपुणं साधयित्वा गर्दभो ऽयमिति प्रतिनिवृत्य तमिषुणाभ्यहनत् । तत्समयमेवासौ पञ्चत्वमगमत् ।
अतोऽहं ब्रवीमि । सुचिरं हि चरन्नित्यमिति । तच्चाख्यानमवधार्य मेघवर्ण आह । कथं वाक्कृतादस्माकमुलूकैः सह वैरमुत्पन्नमिति । सो ऽकथयत् ।