SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ A 210 A 211 A 212 95 THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of erows and owls. मन्त्रमूलं हि विजयं प्रवदन्ति मनीषिणः । मन्त्रस्य पुनरात्मा च बुद्धिश्चायतनं परम् ॥ ३६ ॥ : षडेव खलु मन्त्रस्य द्वाराणि तु नराधिप । विदितान्येव ते तात कीर्तयिष्यामि कीर्तिमन् ॥ ३७ ॥ आत्मानं मन्त्रिदूतं च च्छन्नं चिषवणक्रमम् । • आकारं ब्रुवते षष्ठमेतावान्मन्त्रनिश्चयः ॥ ३८ ॥ असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् । अहीनं धर्मकामाभ्यामर्थं प्राप्नोति केवलम् ॥ ३९ ॥ Book III. 9 आयव्ययं सदानुष्णं छेदनं संशयस्य च । अनिशं तस्य च ज्ञानं मन्त्रिणां त्रिविधं फलम् ॥ ४० ॥ तद्यथा यो मन्त्रो विस्रं * * र्वनं गच्छति । तथा प्रयतितव्यम् । यत्कारणम् । 12 मिथ्या प्रणिहितो मन्त्रः प्रयोक्तारमसंशयम् । दुरिष्ट इव वेतालो नानिहत्योपशाम्यति ॥ ४१ ॥ आत्मपक्षक्षयायैव परपचोदयाय च । 15] मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥ ४२ ॥ आहुः सूक्ष्मतरं किंचिदमात्यपरिरक्षणम् । सूक्ष्मात्सूक्ष्मतरं तेभ्यो यदात्मपरिरक्षणम् ॥ ४३ ॥ 18 मन्त्रो यस्याप्रियस्तस्य राज्यमात्मा च न प्रियः । प्रियो यस्य प्रियं तस्य राज्यमात्मा च भूपतेः ॥ ४४ ॥ अपि च । 21 आयव्ययौ यस्य च संविभक्तौ छन्नश्च चारो निभृतश्च मन्त्रः । न चाप्रियं मन्त्रिषु यो ब्रवीति 24 स सागरान्तां पृथिवीं प्रशास्ति ॥ ४५ ॥ असकृच्छ्रुतमप्यर्थ पृच्छ धीरान्पुनः पुनः । एषा हि मनसो वृत्तिश्चपला मोहजालिनी ॥ ४६ ॥ 27 तद्यदि मयावश्यं मन्त्रयितव्यम् । तदपनीयन्तामेते मन्त्रिमाचव्यपदेशकेवलोपजीविन: कथाकुशलाः । न च करणीयेष्वात्ययिकेषु । अषटूर्ण रहस्यं सफलं भवति । एवं च वर्णिते मेघवर्ण आह । तात । बालभावादनभिज्ञो ऽस्मि । यथा ब्रवीषि । 90 तथा करोमि । त्वदायत्तं हि सर्वमिदम् । त्वमधुनार्थवादी ज्ञानविज्ञानसंपन्नः
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy