Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
100
स त्वं चन्द्रसरो ऽन्यायेन प्रधर्षितवान् । तत्र चास्मत्संरक्षणीयाञ्छशान्व्यापादितवानसि। न चैतद्युक्तम्। ते तु मयैव भर्तव्याः । येनाहं तानुरसा धारयामि । शशाङ्क इति च लोके प्रख्यातनामास्मि । स त्वं यदि न निवर्तसे ऽस्मादव्यापारात् ' ततो ऽस्मत्तो महान्तमनर्थं प्राप्स्यसि । *निवृत्तस्य महान्विशेषो भविष्यति । • अस्म*ज्ज्योत्स्नयाप्यायितशरीरः स्याः । अन्यथास्मद्रश्मिसंनिरोधाधर्माभितापितशरीरः सद्यो विनाशमेष्यसीति । एवमुक्तो ऽतीव क्षुभितहृदयस्तमाह । भद्र ' सत्यम् । मयापकृतम् । सो ऽहमधुना शशिना सह विरोधं न करिष्यामीति । तत्प्रदर्शय पन्थानम् ' क्व तं पश्येयमिति । स आह । आगच्छतु भवान् । यावदहं दर्शयामि । इत्युत्वाशु चन्द्रसरो गत्वा संपूर्णकलामण्डलमुदकगतं चन्द्रमदर्शयत् । असावपि देवताप्रणामं परमशुचिर्भूत्वा करो - मीति मत्वा द्विमनुष्यबाप्रमाणं करमम्भसि प्रक्षिप्तवान् । अथ संक्षुभितोदकचलन्मण्डल इतश्चेतश्चक्रारूढ इव बभ्राम । तेन चन्द्र15 सहस्रमपश्यत् । अथाविग्नहृदयः प्रतिनिवृत्य विजयो ऽब्रवीत् । कष्टं कष्टम् । द्विगुणतरमाकोपितस्त्वया चन्द्रमाः । इभः पृष्टवान् । केन हेतुना । स आह । उदकस्पर्शनेनेति । सो ऽब्रवीत् । केनोपायेनायं प्रसाद्यते । विजय आह । अस्पृशता पानीयमिति । एवमुक्तः संलीनवालधिराकृष्य करं निकृष्टजानुरवनितलविन्यस्तशिराः प्रणम्य भगवन्तं चन्द्रमसं हस्ती शशमवोचत् । भद्र ' शेषकालं 21 त्वया प्रत्याय्यः सर्वकार्येषु भगवान् । इत्युक्त्वानवलोकयन्नेवापुनरागमनाय यथागतं प्रायात् ।
3
9
12
18
Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iii: Elephant and rabbit and moon. Tale ii: Birds elect a king.
24
अतो ऽहं ब्रवीमि । व्यपदेशे ऽपि सिद्धिः स्यादिति । अपि च । क्षुद्रो ऽयं दुरात्मा न शक्तः प्रजाः पालयितुम् ।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164