Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 118
________________ 102 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale iv: Cat as judge between partridge and hare. नाम सकलशास्त्रपारगश्चिरजीवी धर्मशास्त्रविन्मार्जार इति । अयमेवास्य संशयस्य च्छेत्ता । तच्च श्रुत्वा कपिञ्जलो ऽब्रवीत् । ४ अलमनेन शुद्रेण । उक्तं च ।। न हि विश्वसनीयः स्यात्तपस्विच्छद्मना स्थितः । दृश्यन्ते बहवस्तीर्थे गलदन्तास्तपस्विनः ॥ ५९ ॥ • तच्च श्रुत्वा सुखोपायप्रवृत्तिप्रसाधनच्छद्मरूप्युदधिको मार्जारस्तद्विश्वासनार्थं सुतरामादित्याभिमुखो द्विपादः स्थितः । ऊर्ध्वबाहुर्निमीलितकनयनो जपन्नासीत् । जपतश्च तस्य विश्वस्तहृद• यावुपश्लिष्टस्थाने व्यवहारश्रावणमकुरुताम् । तेन चाभिहितम् । वृद्धत्वाद्धतेन्द्रियत्वाच नातिस्पष्टतरं *शुणोम्यहम् । संनिकृष्टौ भूत्वोच्चैः श्रावयतम् । सुष्ठतरं* चादृतो भूत्वा धर्मशास्त्रसंबन्ध12 मवोचत् । धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यः कदाचिदपि साधुभिः ॥६०॥ 16 एक एव सुहृद्धर्मो निधने ऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ६१ ॥ अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । 18 अहिंसानामको धर्मो न भूतो न भविष्यति ॥ ६२॥ मातृवत्परदारांस्तु परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ६३॥ ॥ तत्किं बहुना । तथा तौ छद्मना विश्वासं नीतौ । यैनाङ्कमपगतौ हतौ चेति । यतो ऽसावन्तीनमवहस्याब्रवीत् । यो हि प्राणपरिक्षीणः सहायरहितस्तथा। ५ स एव हि सुखोपायां वृत्तिमासादयेद्बुधः ॥ ६४ ॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164