Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 117
________________ 101 6 12 21 ॥ कथा ४ ॥ 9 अस्ति ' अहं कस्मिंश्चिद्वृत्ते प्रतिवसामि । तत्रैवाधस्तात्कपिञ्जलः प्रतिवसति स्म । तत आवयोः परस्परमेव संवासगुणादभेद्या प्रीतिरुत्पन्ना । प्रतिदिवसं च कृताहारविहारयोः प्रथमप्रदोषकाले सुभाषितप्रश्नप्रतिप्रश्नैः कालो ऽतिवर्तते । अथ कदाचिदालापवेलायां कपिञ्जलो नायाति । यतो मम हृद्गतातीवाकुलता समुत्पन्ना एवं चाचिन्तयम् । किमसौ विनष्टो बद्धो वा । अथवान्यावास एतस्य प्रीतिरुत्पन्ना । येन नायातीति । शून्ये च तस्मिंस्तदीया - वासके दीर्घकर्णो नाम शश आगतः । तेनास्यावासो ऽधिष्ठितः। ततो ऽसौ कपिञ्जलो ऽर्धमासमात्रेणायातः । शशं दृष्ट्वाब्रवीत् । अपगम्यतां मदीयनिकेतनादिति । स तमाह । मूर्ख । न ते विदितम् । उपस्थानभोग्य आवासो भुक्तिश्च । कपिञ्जल आह । सन्त्यत्र प्राश्निकाः । पृच्छामो देशभूपमिति । उक्तं च धर्मशास्त्रे । 15 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ii : Birds elect & king. Tale iv: Cat as judge between partridge and hare. क्षुद्रमर्थपतिं प्राप्य कदा विवदतोः सुखम् । उभावपि क्षयं यातौ यथा शशकपिञ्जलौ ॥ ५७ ॥ · त आहुः । कथं चैतत् । सो ऽब्रवीत् । वापीकूपतडाकानां गृहस्यावसथस्य च । 18 सामन्तप्रत्यया सिद्धिरित्येवं मनुरब्रवीत् ॥ ५८ ॥ तथा नामेति प्रतिपद्य प्रस्थितौ व्यवहारकरणाय । अहमपि कौतुकात्तयोरेव पृष्ठतो ऽनुगतः । पश्यामि किमत्र तथ्यमिति । नातिदूरं गत्वा कपिञ्जलः शशमाह । क आवयोर्व्यवहारं द्रक्ष्यति । असावब्रवीत् । नन्वयं नदीपुलिनगतस्तपः संश्रित उदधिकर्णी

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164