________________
101
6
12
21
॥ कथा ४ ॥
9
अस्ति ' अहं कस्मिंश्चिद्वृत्ते प्रतिवसामि । तत्रैवाधस्तात्कपिञ्जलः प्रतिवसति स्म । तत आवयोः परस्परमेव संवासगुणादभेद्या प्रीतिरुत्पन्ना । प्रतिदिवसं च कृताहारविहारयोः प्रथमप्रदोषकाले सुभाषितप्रश्नप्रतिप्रश्नैः कालो ऽतिवर्तते । अथ कदाचिदालापवेलायां कपिञ्जलो नायाति । यतो मम हृद्गतातीवाकुलता समुत्पन्ना एवं चाचिन्तयम् । किमसौ विनष्टो बद्धो वा । अथवान्यावास एतस्य प्रीतिरुत्पन्ना । येन नायातीति । शून्ये च तस्मिंस्तदीया - वासके दीर्घकर्णो नाम शश आगतः । तेनास्यावासो ऽधिष्ठितः। ततो ऽसौ कपिञ्जलो ऽर्धमासमात्रेणायातः । शशं दृष्ट्वाब्रवीत् । अपगम्यतां मदीयनिकेतनादिति । स तमाह । मूर्ख । न ते विदितम् । उपस्थानभोग्य आवासो भुक्तिश्च । कपिञ्जल आह । सन्त्यत्र प्राश्निकाः । पृच्छामो देशभूपमिति । उक्तं च धर्मशास्त्रे ।
15
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ii : Birds elect & king. Tale iv: Cat as judge between partridge and hare.
क्षुद्रमर्थपतिं प्राप्य कदा विवदतोः सुखम् । उभावपि क्षयं यातौ यथा शशकपिञ्जलौ ॥ ५७ ॥ · त आहुः । कथं चैतत् । सो ऽब्रवीत् ।
वापीकूपतडाकानां गृहस्यावसथस्य च ।
18 सामन्तप्रत्यया सिद्धिरित्येवं मनुरब्रवीत् ॥ ५८ ॥ तथा नामेति प्रतिपद्य प्रस्थितौ व्यवहारकरणाय । अहमपि कौतुकात्तयोरेव पृष्ठतो ऽनुगतः । पश्यामि किमत्र तथ्यमिति । नातिदूरं गत्वा कपिञ्जलः शशमाह । क आवयोर्व्यवहारं द्रक्ष्यति । असावब्रवीत् । नन्वयं नदीपुलिनगतस्तपः संश्रित उदधिकर्णी