Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 112
________________ A 213 A 214 96 9 12 15 18 21 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale i: Ass in panther-skin. Frame-story. Frame-story. पितृक्रमेण हितैषी । किंतु कौतूहलमुच्यताम् । कथं पुनरस्माकमुलूकानां वैरमिति । सो ऽब्रवीत् । भद्र । वाक्कृतात् । 3 सुचिरं हि चरन्नित्यं ग्रीष्मे सस्यमबुद्धिमान् । द्वीपिचर्मप्रतिच्छन्नो वाक्कृताद्रासभो हतः ॥ ४७ ॥ सो ऽब्रवीत् । कथं चैतत् । चिरजीव्याह । • ॥ कथा १ ॥ अस्ति कस्यचिद्रजकस्य वस्त्रनयनातिभारपीडया गर्दभो ऽवसन्नः । स एवं चिन्तयामास । कष्टम् । न शोभनमापतितम् । मम कर्मव्याघातो मूल्यहानिश्च । अधुना कथं करणीयम् । अथवास्त्युपायः । रूपकत्रयेण द्वीपिचर्म लभ्यते । तेनावच्छाद्याहमेनं रात्रौ हरितसस्ये मोक्षयिष्यामि । तद्भक्षणादसंशयमल्पैरहोभिरयं बलवान्भविष्यति । तथा चानुष्ठिते भक्ष्यमाणेषु सस्येषु कार्षिकः स्वक्षेत्राणि रक्षितुमारब्धः । कदाचिच्च क्षेत्रमध्येनायातः स दृष्टः । द्वीप्ययम् । नष्टोऽस्मीति मत्वार्द्रकम्बलमुपरि दत्त्वोद्यतधनुष्पाणिः शनैः शनैरपक्रामितुमारब्धः । अथ गर्दभस्तं दृष्ट्वा गर्दभीयमिति निष्कृष्टायुः परं वेगमास्थायोपसर्पितुमारब्धः । असावपि शीघ्रतरवेगो धावति । गर्दभश्चैवमचिन्तयत् । कदाचिदियं द्वीपिचर्मव्यवस्थितशरीरं मां दृष्ट्वान्यत्रैवावगच्छेत् । अतो ऽहमस्याः स्वां प्रकृतिमास्थाय वाशितेन मनोह्लादनं करिष्यामि । इति वाशितुमारब्धः । तच्च श्रुत्वारक्षिपुरुषः सुनिपुणं साधयित्वा गर्दभो ऽयमिति प्रतिनिवृत्य तमिषुणाभ्यहनत् । तत्समयमेवासौ पञ्चत्वमगमत् । अतोऽहं ब्रवीमि । सुचिरं हि चरन्नित्यमिति । तच्चाख्यानमवधार्य मेघवर्ण आह । कथं वाक्कृतादस्माकमुलूकैः सह वैरमुत्पन्नमिति । सो ऽकथयत् ।

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164