Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 107
________________ 91 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. 1202 चार्यानि नीतिशास्त्राणि गदितानि । तानि विशेषत एवैभियिन्ते । तत्र यद्रहस्यम् । तन्निराकुलो भूत्वभिरेव दत्ताधिकारैः सार्ध संप्रधारयतु भवानिति । 3 एवमुत्कैकान्तीभूताः ।। 1201 अथ स राजा मेघवर्णस्तान्प्रत्येक प्रष्टमारब्धः। तस्य चान्वयागताः पञ्च सचिवाः । तद्यथा । उद्दीपी । संदीपी । आदीपी । प्रदीपी । चिरजीवी चेति । तेषामा6 दावुद्दीपिनं पृष्टवान् । भद्र। एवमवस्थिते किमनन्तरं करणीयं मन्यसे । सो ऽब्रवीत् । किं मयाभ्यधिकं किंचिज्ज्ञायते । देव । यदेव शास्त्रे ऽभिहितम् । तदेव वच्यामि । किंतु बलवता विगृहीतस्य तदनुप्रवेशी विदेशगमनं वा । 9 तच्छ्रुत्वा संदीपिनमाह । भद्र । भवान्कथं मन्यत इति । सो ऽब्रवीत् । देव । यदेवानेनाभिहितम् । बलवता विगृहीतस्य विदेशगमनम् । एवमभिमतम् । तत्रापि नाकस्मादकपद एव दुर्गपरित्यागः कार्यः । यतो युक्तमेवं स्थिते दोलाव्याजेन याप12 यितुम् । यदा भयं भविष्यति । तदापयानं करिष्यामः । यदा स्वास्थ्यम् । तदा दुर्ग एव स्थास्थाम इति । ततस्तस्यापि वचनमवधार्य प्रदीपिनं पृष्टवान् । भवतो ऽत्र को ऽभिप्रायः । 15 सो ऽब्रवीत् । राजन् । आत्ययिकमिदमनवरतं गतागतकरणम् । दीनान्धकुब्जवा मनकुणिखञ्जव्याधितोपस्करादिभिर्नयनानयनैरेव वयं विनष्टाः । यत एवं गते संधिरेव श्रेयस्कर इति । यत्कारणम् ।। 18 प्रवृद्धचक्रेणाकान्तो राजा बलवताबलः । संधिनोपक्रमेत्तूर्ण कोशदुर्गात्मभूतये ॥ २ ॥ यतस्तेषां संनतिं कृत्वा सुखमनुद्विमा इहव स्थास्याम इति । 1 तस्यापि वचनमवधार्यादीपिनं पृष्टवान् । भद्र । एवमवस्थिते ऽस्माकं किं प्राप्तकालं मन्यसे । स आह । वरमरण्यहरिणरोमन्थकषायाख्यम्मास्यासेवितानि । न च प्रभुत्वरसास्वादिनः परोपस्थाने कृपणजीवितमिति । अपि च । 2 ज्यायान्न नमेदसमे असमोपनमनमहो महत्कष्टम् । गर्हितमेतत्पुंसामतिनमनं साहसधनानाम् ॥ ३ ॥ अपि च । 27 दण्डानामिव नमतां पुंसां छाया विवृद्धिमुपयाति । क्षयमेति चाति नमतां तस्मात्प्रणमेन्न चाति नमेत् ॥४॥ तैः सहास्माकं संदर्शनमेव न विद्यते । संदर्शनेन विना कथं संधिर्भविष्यति । 30 तत्सर्वथा युद्धमेव नस्तैः सह पुष्कलमिति । 4 206 ततो मेघवर्णस्तेषां चतुर्णामपि पृथक्पृथगभिप्रायं ज्ञात्वा चिरजीविनमाह । तात । 1203b 1204 A205

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164