________________
91
THE WAR OF THE CROWS AND THE OWLS. Book III.
Frame-story: War of crows and owls.
1202
चार्यानि नीतिशास्त्राणि गदितानि । तानि विशेषत एवैभियिन्ते । तत्र यद्रहस्यम् । तन्निराकुलो भूत्वभिरेव दत्ताधिकारैः सार्ध संप्रधारयतु भवानिति ।
3 एवमुत्कैकान्तीभूताः ।। 1201
अथ स राजा मेघवर्णस्तान्प्रत्येक प्रष्टमारब्धः। तस्य चान्वयागताः पञ्च सचिवाः । तद्यथा । उद्दीपी । संदीपी । आदीपी । प्रदीपी । चिरजीवी चेति । तेषामा6 दावुद्दीपिनं पृष्टवान् । भद्र। एवमवस्थिते किमनन्तरं करणीयं मन्यसे । सो ऽब्रवीत् ।
किं मयाभ्यधिकं किंचिज्ज्ञायते । देव । यदेव शास्त्रे ऽभिहितम् । तदेव वच्यामि । किंतु बलवता विगृहीतस्य तदनुप्रवेशी विदेशगमनं वा ।
9 तच्छ्रुत्वा संदीपिनमाह । भद्र । भवान्कथं मन्यत इति । सो ऽब्रवीत् । देव । यदेवानेनाभिहितम् । बलवता विगृहीतस्य विदेशगमनम् । एवमभिमतम् । तत्रापि
नाकस्मादकपद एव दुर्गपरित्यागः कार्यः । यतो युक्तमेवं स्थिते दोलाव्याजेन याप12 यितुम् । यदा भयं भविष्यति । तदापयानं करिष्यामः । यदा स्वास्थ्यम् । तदा दुर्ग एव स्थास्थाम इति ।
ततस्तस्यापि वचनमवधार्य प्रदीपिनं पृष्टवान् । भवतो ऽत्र को ऽभिप्रायः । 15 सो ऽब्रवीत् । राजन् । आत्ययिकमिदमनवरतं गतागतकरणम् । दीनान्धकुब्जवा
मनकुणिखञ्जव्याधितोपस्करादिभिर्नयनानयनैरेव वयं विनष्टाः । यत एवं गते संधिरेव श्रेयस्कर इति । यत्कारणम् ।।
18 प्रवृद्धचक्रेणाकान्तो राजा बलवताबलः ।
संधिनोपक्रमेत्तूर्ण कोशदुर्गात्मभूतये ॥ २ ॥ यतस्तेषां संनतिं कृत्वा सुखमनुद्विमा इहव स्थास्याम इति । 1 तस्यापि वचनमवधार्यादीपिनं पृष्टवान् । भद्र । एवमवस्थिते ऽस्माकं किं प्राप्तकालं मन्यसे । स आह । वरमरण्यहरिणरोमन्थकषायाख्यम्मास्यासेवितानि । न च प्रभुत्वरसास्वादिनः परोपस्थाने कृपणजीवितमिति । अपि च ।
2 ज्यायान्न नमेदसमे असमोपनमनमहो महत्कष्टम् ।
गर्हितमेतत्पुंसामतिनमनं साहसधनानाम् ॥ ३ ॥ अपि च । 27 दण्डानामिव नमतां पुंसां छाया विवृद्धिमुपयाति ।
क्षयमेति चाति नमतां तस्मात्प्रणमेन्न चाति नमेत् ॥४॥ तैः सहास्माकं संदर्शनमेव न विद्यते । संदर्शनेन विना कथं संधिर्भविष्यति । 30 तत्सर्वथा युद्धमेव नस्तैः सह पुष्कलमिति । 4 206 ततो मेघवर्णस्तेषां चतुर्णामपि पृथक्पृथगभिप्रायं ज्ञात्वा चिरजीविनमाह । तात ।
1203b
1204
A205