Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 74
________________ 58 Book II. THE WINNING OF FRIENDS%3B Frame-story: Dove, mouse, crow, tortoise, and deer. A 141 A142 A143 . A144 तदपगम्यतामम रोधस्थानात् । सो ऽब्रवीत् । भद्र । चपलो न चपल इति । किमनेन निष्ठुरवचनेन । नि३ श्चयो ऽयमवश्यं भवता सह मैत्री कर्तव्येति । हिरण्यो विहस्थाब्रवीत् । भद्र । यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् । नोदके शकटं याति न नावा गम्यते स्थले ॥ २० ॥ 6 यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।। अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति ॥ २१॥ वायसः । 9 भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवेयं चित्रग्रीव वानघ ॥ २२ ॥ तेन हि न युक्तं प्रार्थयमाने मयि भवतो ऽनादरं कर्तुम् । तिरश्चामपि समय12 कारणेन नाविश्वासमुपयान्ति सन्तः । कथम् । साधोः प्रकुपितस्थापि न मनो याति विक्रियाम् । । न हि तापयितुं शक्यं समुद्राम्भस्तृणोल्कया ॥ २३ ॥ ___15 अपि च । खण्डित: कुट्टितचैव पुनरेव द्रवीकृतः । तथापि लवण: स्वादुर्गोबजे विकृतिः कुतः ॥ २४ ॥ 18 ततो विहस्य हिरण्यो ऽब्रवीत् । भद्र। इह तावल्लोके द्वे वेरे शास्त्रदृष्टे । एकाङ्गवैरमुभयवैरं च । वायसः । कस्तयोर्विशेषः । हिरण्यः । * यो विहन्यात्परस्परम् ।। अन्यो ऽन्येन भक्ष्यते । परस्परापकारात्तदुभयवेरमिति । यः पूर्वमेव हत्वा भक्ष21 यति । न चासौ तस्यापकरोति न हिनस्ति न भक्षयति । तदेकावरम् । अकस्मात् । यथा । अश्वमहिर्ष मार्जारमूषकमहिनकुलम् । किमश्वो महिषख । सो वा बधीः । मूषको वा मार्जारस्थापकरोति । 24 तत्सर्वथा किमशक्येन समयकारणेन । उक्तं च । शत्रुणापि न संदध्यात्मुश्चिष्टेनापि संधिना । अतप्तमपि पानीयं शमयत्येव पावकम् ॥ २५ ॥ 27 अपि च । सुहृदयमिति दुर्जने ऽस्ति काशा बहु कृतमस्य मयेति लुप्तमेतत् । 30 स्वजन इति पुराणशब्द एषो धनलवमात्रनिबन्धनो हि लोकः ॥ २६ ॥ अन्यञ्च । A 145 A 146

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164