________________
58
Book II. THE WINNING OF FRIENDS%3B Frame-story: Dove, mouse, crow, tortoise, and deer.
A 141
A142
A143
. A144
तदपगम्यतामम
रोधस्थानात् । सो ऽब्रवीत् । भद्र । चपलो न चपल इति । किमनेन निष्ठुरवचनेन । नि३ श्चयो ऽयमवश्यं भवता सह मैत्री कर्तव्येति । हिरण्यो विहस्थाब्रवीत् । भद्र ।
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् । नोदके शकटं याति न नावा गम्यते स्थले ॥ २० ॥ 6 यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।।
अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति ॥ २१॥ वायसः ।
9 भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवेयं चित्रग्रीव वानघ ॥ २२ ॥ तेन हि न युक्तं प्रार्थयमाने मयि भवतो ऽनादरं कर्तुम् । तिरश्चामपि समय12 कारणेन नाविश्वासमुपयान्ति सन्तः । कथम् ।
साधोः प्रकुपितस्थापि न मनो याति विक्रियाम् ।
। न हि तापयितुं शक्यं समुद्राम्भस्तृणोल्कया ॥ २३ ॥ ___15 अपि च ।
खण्डित: कुट्टितचैव पुनरेव द्रवीकृतः ।
तथापि लवण: स्वादुर्गोबजे विकृतिः कुतः ॥ २४ ॥ 18 ततो विहस्य हिरण्यो ऽब्रवीत् । भद्र। इह तावल्लोके द्वे वेरे शास्त्रदृष्टे । एकाङ्गवैरमुभयवैरं च । वायसः । कस्तयोर्विशेषः । हिरण्यः । * यो विहन्यात्परस्परम् ।।
अन्यो ऽन्येन भक्ष्यते । परस्परापकारात्तदुभयवेरमिति । यः पूर्वमेव हत्वा भक्ष21 यति । न चासौ तस्यापकरोति न हिनस्ति न भक्षयति । तदेकावरम् । अकस्मात् । यथा । अश्वमहिर्ष मार्जारमूषकमहिनकुलम् । किमश्वो महिषख । सो वा बधीः । मूषको वा मार्जारस्थापकरोति । 24 तत्सर्वथा किमशक्येन समयकारणेन । उक्तं च ।
शत्रुणापि न संदध्यात्मुश्चिष्टेनापि संधिना ।
अतप्तमपि पानीयं शमयत्येव पावकम् ॥ २५ ॥ 27 अपि च ।
सुहृदयमिति दुर्जने ऽस्ति काशा
बहु कृतमस्य मयेति लुप्तमेतत् । 30 स्वजन इति पुराणशब्द एषो
धनलवमात्रनिबन्धनो हि लोकः ॥ २६ ॥ अन्यञ्च ।
A 145
A 146