SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ A 138 A 139 A 140 57 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. कुपितोऽब्रवीत् । भद्र । कथं स्वव्यसनानपेक्षां कृत्वा परस्य व्यसनमोचः क्रियत इति । सोऽब्रवीत् । भद्र । न मन्युः कार्यः । श्रूयतां तावत् । अयं किलाश्रयणीयगुणो3 पेत इति कृत्वामी स्वामिनं परित्यज्य मञ्चक्रमनुप्रविष्टाः । यतो ऽस्य पञ्चरात्रम् । अस्य दशरात्रम् । मासो ऽस्य । अस्य मासाधिकः संवत्सरो गतः प्रविष्टस्येति । तथावदमुं भवान्मम पाशं न च्छिनत्ति । तावदश्रान्तमेषां छेत्स्यसि । आदौ च मम च्छिन्ने • कदाचिद्भवाञ्छ्रममियात् । तत्साधुनयत एवं मयाभिहितम् । तच्छ्रुत्वा हिरण्य आह । मया तावद्भवत उपधापरीक्षेयं कृता । साध्वाश्रयणीयगुणोपेतोऽसि । कारुण्यं संविभागश्च यथा भृत्येषु वर्तते । १ चित्तेनानेन शक्तस्त्वं त्रैलोक्यमपि शासितुम् ॥ १६ ॥ तत् । भद्र । अशेषमधुना पाशच्छेदं कृतमवधारय । तथा चानुष्ठितवान् । मुक्तबन्धनस्तु चित्रग्रीवो हिरण्यमापृच्य क्वाप्युत्पत्य प्रायात् । हिरण्यो ऽपि स्वं दुर्ग प्रविष्टः । 12 लघुपतनको ऽप्यादितः प्रभृत्येव तद्दृष्ट्वा तत्समीपपादपावस्थितो ऽचिन्तयत् । अहो । महदिदमाश्चर्य हिरण्याश्चित्रग्रीवमोक्षणम् । * तन्ममापि युक्तं हिरण्येन चि15 त्रग्रीववत्प्रीतिकरणम् * । येनास्माकमीदृशानि पाशबन्धनव्यसनान्युत्पद्यन्त इति । एवं संप्रधार्य तस्मात्पादपादवरुह्य विवरद्वारमासाद्य पूर्वोपलब्धनामानं हिरण्यं व्याहृतवान् । भद्र हिरण्य । इतस्तावदिति । तच्छ्रुत्वा हिरण्यो ऽचिन्तयत् । किमद्यापि 18 कश्चित्सावशेषपाशबन्ध एवावतिष्ठते । आह च । को भवान् । असावपि लघुपत नको ऽहमित्याख्यातवान् । जात्या पुनर्वायस इति । हिरण्यो ऽन्तर्गत एवापश्यत् । भिन्नाञ्जनचूर्णभृङ्गाङ्गार राशिस्त्री केशपाशपरभृततुल्यच्छविं तं दरीद्वारगतं वायसं दृष्ट्वा21 ब्रवीत् । अपगम्यतामस्मात्स्थानादिति । वायसः । श्रूयतां तावत् । अहं चित्रग्रीवमोक्षणं दृष्ट्वा बहुमनोरथमिच्छामि भवता सह मित्रत्वमिति । यत्कारणम् । अस्माकमीदृशानि व्यसनान्युत्पद्यन्त इति । तानि तु त्वया नाथेनायत्नमपासनशक्यानि 24 भवन्ति । किं बहुना । गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम् । छाद्यमानापि सौगन्ध्यमुद्वमत्येव मालती ॥ १७ ॥ 22 तच्छ्रुत्वा हिरण्यो ऽब्रवीत् । भद्र | स्वभावच पलस्त्वम् । उक्तं च । आत्मनश्चपलो नास्ति कुतो ऽन्येषां भविष्यति । तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ १८ ॥ 30 अपि च । उत्पथेन क्वचिद्याति क्वचिन्मार्गेण गच्छति । मुहुरुष्णो मुहुः शीतश्चपलचपलायते ॥ १९ ॥ H
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy