SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ A 136 A 137 56 पुनरप्याह । नैवान्तरिचे न समुद्रमध्ये 3 न पर्वतानां विवरप्रदेशे । नास्तीह पृथ्व्यां स हि को ऽपि देशो यच स्थितं न प्रसहेत कर्म ॥ ६ ॥ Book II. THE WINNING OF FRIENDS; Frame-story: Dove, mouse, crow, tortoise, and deer. • हिरण्य आह । एवमेतत् । सदशायोजनशतात्पश्यति ह्यामिषं खगः । स एव काले संप्राप्ते पाशबन्धं न पश्यति ॥ ७ ॥ · शशिदिवाकरयोर्ग्रहपीडनं गजभुजंगमयोरपि बन्धनम् । मतिमतां च निरीच्य दरिद्रतां 12 विधिरहो बलवानिति मे मतिः ॥ ८ ॥ साधु चेदमुच्यते । व्योमैकान्तरचारिणो ऽपि विहगाः संप्राप्नुवन्त्यापदं 15 बध्यन्ते बडिषेरगाधस लिलामीमाः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुण: कालो हि व्यसनप्रसारितभुजी गृह्णाति दूरादपि ॥ ९ ॥ 18 पुनरप्याह । गत्वापि दूरमाकाशं पञ्चाभिज्ञा महर्षयः । गन्तुं तत्र न शक्तास्ते यत्र मृत्योरगोचरः ॥ १० ॥ 21 पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते । शुष्यते सागरजलं शरीरे तत्र का कथा ॥ ११ ॥ वज्रसारशरीराणां देवानां यद्यनित्यता । कदलीगर्भतुच्छेषु का चिन्तान्येषु देहिषु ॥ १२ ॥ मृत्योरत्युग्रदंद्रस्य प्रमत्ताः खल्विमाः प्रजाः । वने जिघांसोः सिंहस्य मृगी काभिमुखं स्थिता ॥ १३ ॥ 27 सर्वोपायैर्यदा नास्ति मृत्योरन्या प्रतिक्रिया । धृतिमालम्ब्य यत्नेन स्वचित्तं परिभाष्यताम् ॥ १४ ॥ कश्चित्तावत्त्वया दृष्टः श्रुतो वा शङ्कितोऽपि वा । 30 चितौ वा यदि वा स्वर्गे यख मृत्युर्न विद्यते ॥ १५ ॥ एवमुक्का चित्रग्रीवस्य पाशांश्छेत्तुमारब्धः । तेनापि निषिद्धो मा तावन्मम पाशाः । किंतु प्रथमं मत्परिजनस्य च्छिद्यन्तामिति । एवं द्वितीये तृतीये हिरण्यः 24
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy