________________
A 130
A 131
A 132
A 133
A 134
A 135
55
3
THE WINNING OF FRIENDS. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer.
चित्रग्रीवो ऽपि तं क्रूरं श्वगणपरिवृतं दृष्ट्वानुयान्तं शनैर्गन्तुमारब्धः ।
अथ तत्र चित्रग्रीवसुचरितप्रत्यक्षविस्मितमना लघुपतनको ऽप्याहारचिन्तामुत्सृज्य कौतुकपरः कपोतशिबिरमेवानुसृतो ऽचिन्तयच्च । कथमयं दुरात्मा कपोतान्प्रति करि ष्यतीति । अथ लुब्धको ऽभिवर्धितं कपोतचक्रं दृष्ट्वा बद्धाशो ऽनुधावन्पुनरब्रवीत् । अविक्रियां चैव समाश्रिताः समं
• हरन्ति जालं मम पक्षिणो ह्यमी ।
विवादमेष्यन्ति परस्परं यदा
समागमिष्यन्ति च मद्वशं तदा ॥ ३ ॥
9 चित्रग्रीवो ऽपि तदभिप्रायं ज्ञात्वा सहायानाह । अयं दुरात्मा बडाशो ऽनुधावति लुब्धकः । अतो ऽस्माकमदर्शनमेव श्रेयः । यत्कारणम् । अयं दुरात्मा मन्यते । विवादमेष्यन्ति यदा । तदा मे वश्या भवन्तीति । अथान्तर्हिता जाल गृहीत्वा 12 पक्षिणः । अथ होनाशो दासः प्रतिनिवृत्तः ।
तं च तथाविधं हीनाशं दृष्ट्वा चित्रग्रीवः पुनस्तानब्रवीत् । सो ऽयमस्मञ्चिकीर्षितं ज्ञात्वा प्रतिनिवृत्तो विहताशो भवति । यतो ऽस्माकमपि प्रतिनिवृत्य गन्तुं श्रेयो 15 मिहिलारोप्यमेव । यत्कारणम् । मम तत्र प्रियसुहृत्कश्चिद्धिरण्यो नाम मूषकः प्रतिवसति । तत्सकाशमविलम्बितं गच्छामः । सो ऽमीषां पाशानां छेदसमर्थो भवति । नान्यो ऽस्माकमापदो मोक्षयितेति । तथा चानुष्ठिते हिरण्यं दिदृक्षवः 18 संनिपतितास्तमुद्देशम् ।
अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः ।
अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ ४ ॥
21 पक्षपातशब्दचकितहृदयो हिरण्यो बिडालपदमात्रं मार्गमुत्सृज्य किमिदमिति निरीचितुमारब्धः ।
चित्रग्रीवो ऽपि विवरद्वार्यवस्थित एवमाह । भद्र हिरण्य । इतस्तावदिति । तच्च 24 श्रुत्वान्तर्गत एव हिरण्यो ऽब्रवीत् । को भवानिति । असावपि चित्रग्रीवो ऽहमित्याख्यातवान् । एवमाख्याते च तत्त्वार्थोपलब्धिप्रहर्ष रोमाञ्चितगात्रः स ससंभ्रमं निर्गत्यापश्यत्पाशबन्धव्याकुलीकृतं सपरिवारं चित्रग्रीवम् । आह च सविषादम् । भद्र 27 किमिदम् । कथय कथयेति । चित्रग्रीवः । वयस्य । विद्वानसि । किमनेन पृष्टेन । अपि च ।
यस्माच्च येन च यदा च यथा च यच्च 30 यावच्च यच च शुभाशुभमात्मकर्म । तस्माच्च तेन च तदा च तथा च तच्च तावञ्च तत्र च कृतान्तवशादुपैति ॥ ५॥