________________
A 127
A 128
A 129
॥ मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् ॥
अतः परमिदमारभ्यते मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् । अत्रायमाय: स्लोकः । साधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
3 साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १ ॥ एवमाख्यायते ।
दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् । तस्य नातिदूरे महास्कन्धशा• खाविटपः शल्मलिवृक्षः । तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्रभातसमय आहारार्थमुञ्चलितो ऽपश्यत्तदधिष्ठानवासिनमुग्ररूपं स्फुटितकरचरणमुद्वद्धपिण्डिकं रूक्षपरुषशरीरमतिरक्तलोचनं जाललगुडपाणिं पचिबन्धम् । किं 9 बहुना । द्वितीयमिव कालं तद्वृक्षाभ्याशमुपगतम् । दृष्ट्वाचिन्तयच्छङ्कितमनाः । किमयं पापचिकीर्षति । किं ममैवानर्थाय । आहो स्वित्कश्चिदन्यो ऽस्याध्यवसायः । इति कौतुकपरो ऽवस्थितः ।
12 असावपि दुष्टात्मा तद्वृक्षसमीपे जालं वितत्याहार्येर्धान्यकणैरवकीर्यैकान्ते ऽदृश्यो ऽवस्थितः । अथ तत्र चित्रग्रीवो नाम कपोतराजः कपोतसहस्रपरिवारो नभस्यति - क्रामन्देवात्तान्कणान्साधयति स्म । आहारनिमित्ताक्षिप्तचित्तश्च मोहाज्जालमनुसृतः 16 सानुचरः संनिपातसमकालमेवाशेषो बधः स्नायुपाशैः । लुब्धको ऽपि हृष्टमना लगुडमुद्यम्याद्य पक्षिणो बहवः समुत्पन्नाः । शीघ्रतरं गच्छामीत्वचिन्तयत् । चित्रग्रीवो ऽपि सानुचरः पाशबन्धव्याकुलीकृतमना इतश्चेतः परिभ्रमश्चक्रारूढ इव तैराकृष्यमाणे जाले 18 विचिचचचुचरणैः कृष्यमाणः सहायैस्तानब्रवीत् । अनुपाय एषः । तत्र जरत्कपोतस्तं राजानमाह । अत्रोपाय एषः । एकचित्ता भूत्वोत्पतत । अन्यथेदमशक्यं जालमपहर्तुमिति । तथा च तैर्जीवितार्थिभिरनुष्ठितम् । इषुक्षेपमाचं नभसो मार्गमुत्सृज्य 21 वियति विगतभया वितानबन्धं कृत्वा प्रस्थिताः । लुब्धको ऽपि तज्जालं पचिभिर्नीयमानं दृष्ट्वाचिन्तयत् । अभूतपूर्वमिदम् । यन्मम पक्षिणो जालमपहरन्तीति । अथवा । संहतास्तु हरन्तीमे मम जालं विहंगमा: ।
24 यदा तु विवदिष्यन्ति वशमेष्यन्ति मे तदा ॥ २ ॥