SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ A 147 A 148 A 149 A 150 59 OR, ‘THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. इष्टो वा सुकृतशतोपलालितो वा शिष्टो वा व्यसनशताभिरक्षितो वा । 3 दौः शील्याज्जनयति नैव जात्वसाधुविस्रम्भं भुजग द्रवांसमध्यसुप्तः ॥ २७ ॥ महताप्यर्थसारेण यो विश्वसति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवितम् ॥ २८ ॥ सकृद्दुष्टं तु यो मित्रं पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरो यथा ॥ २९ ॥ 6 9 अपराधो न मे ऽस्तीति नेतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ३० ॥ वायसः । श्रुतं मयैतत् । किंतु सर्वथाहं त्वामात्मीकरोमि । शक्यं चैतत् । तथा हि । 12 द्रवत्वात्सर्वलोहानां निमित्तामृगपचिणाम् । भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम् ॥ ३१ ॥ अन्यच्च । 16 मृङ्घटवत्सुखभेयो दुःसंधानश्च दुर्जनो भवति । सुजनश्च कनकघटवहुर्भेयः संधनीयश्च ॥ ३२ ॥ यद्येतदेवं स्यात् । तथा त्वया समयो मे युक्त एव स्यात् । अन्यथास्मिन्नेव स्थाने 18 प्राणपरित्यागं करिष्यामीति । तच्छ्रुत्वा हिरण्यो ऽब्रवीत् । प्रत्यायितो ऽहं भवता । तथा नाम । किंतु मा किल भवान्मंस्यते । अज्ञो ऽयम् । मया बुद्धिकौशलेनाभिहितमिति । यत एतन्मया 21 भवतः प्रदर्शितम् । अधुना त्वदङ्कगतं मे शिरः । यद्येवं मां विनाशयसि । तथाप्यर्चित इति । एवमुक्त्वा निर्गन्तुमारब्धः । ईषच्च निर्गतः पुनरवस्थितः । वायसेनाभिहितः । भद्र । किमद्यापि ममोपर्य24 विश्वासकारणम् । हिरण्यः । अस्ति किंचिद्वक्तव्यम् । इह हि चित्तवित्ताभ्यां लोको यापयति । तयोर्वैरम् । चित्तवित्ताभ्यां संगमो वृद्धये । न पुनर्वित्तं प्रभूतमपि । विनाशाय कश्चिल्लावकेभ्यस्तिलान्प्रयच्छति । मत्स्येभ्यो जालम् । किमसावुपकाराय । 27 न मूलोच्छित्तये । तथा मत्स्यमपि बडिशेनापकृष्य च्छित्त्वा चर्मापनयनशेषाङ्गपरिरक्षणार्थमसौ तस्यारम्भः । साधु चेदमुच्यते । नास्ति जात्वा रिपुर्नाम मिचं नाम न विद्यते । 30 सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ ३३ ॥ बाध्यन्ते न ह्यविश्वस्ता दुर्बला बलवत्तरैः । विश्वस्ताश्चाशु बाध्यन्ते बलवन्तो ऽपि दुर्बलेः ॥ ३४ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy