Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
A 138
A 139
A 140
57 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer.
कुपितोऽब्रवीत् । भद्र । कथं स्वव्यसनानपेक्षां कृत्वा परस्य व्यसनमोचः क्रियत इति । सोऽब्रवीत् । भद्र । न मन्युः कार्यः । श्रूयतां तावत् । अयं किलाश्रयणीयगुणो3 पेत इति कृत्वामी स्वामिनं परित्यज्य मञ्चक्रमनुप्रविष्टाः । यतो ऽस्य पञ्चरात्रम् । अस्य दशरात्रम् । मासो ऽस्य । अस्य मासाधिकः संवत्सरो गतः प्रविष्टस्येति । तथावदमुं भवान्मम पाशं न च्छिनत्ति । तावदश्रान्तमेषां छेत्स्यसि । आदौ च मम च्छिन्ने • कदाचिद्भवाञ्छ्रममियात् । तत्साधुनयत एवं मयाभिहितम् । तच्छ्रुत्वा हिरण्य आह । मया तावद्भवत उपधापरीक्षेयं कृता । साध्वाश्रयणीयगुणोपेतोऽसि । कारुण्यं संविभागश्च यथा भृत्येषु वर्तते ।
१ चित्तेनानेन शक्तस्त्वं त्रैलोक्यमपि शासितुम् ॥ १६ ॥
तत् । भद्र । अशेषमधुना पाशच्छेदं कृतमवधारय । तथा चानुष्ठितवान् । मुक्तबन्धनस्तु चित्रग्रीवो हिरण्यमापृच्य क्वाप्युत्पत्य प्रायात् । हिरण्यो ऽपि स्वं दुर्ग प्रविष्टः ।
12
लघुपतनको ऽप्यादितः प्रभृत्येव तद्दृष्ट्वा तत्समीपपादपावस्थितो ऽचिन्तयत् । अहो । महदिदमाश्चर्य हिरण्याश्चित्रग्रीवमोक्षणम् । * तन्ममापि युक्तं हिरण्येन चि15 त्रग्रीववत्प्रीतिकरणम् * । येनास्माकमीदृशानि पाशबन्धनव्यसनान्युत्पद्यन्त इति । एवं संप्रधार्य तस्मात्पादपादवरुह्य विवरद्वारमासाद्य पूर्वोपलब्धनामानं हिरण्यं व्याहृतवान् । भद्र हिरण्य । इतस्तावदिति । तच्छ्रुत्वा हिरण्यो ऽचिन्तयत् । किमद्यापि 18 कश्चित्सावशेषपाशबन्ध एवावतिष्ठते । आह च । को भवान् । असावपि लघुपत
नको ऽहमित्याख्यातवान् । जात्या पुनर्वायस इति । हिरण्यो ऽन्तर्गत एवापश्यत् । भिन्नाञ्जनचूर्णभृङ्गाङ्गार राशिस्त्री केशपाशपरभृततुल्यच्छविं तं दरीद्वारगतं वायसं दृष्ट्वा21 ब्रवीत् । अपगम्यतामस्मात्स्थानादिति । वायसः । श्रूयतां तावत् । अहं चित्रग्रीवमोक्षणं दृष्ट्वा बहुमनोरथमिच्छामि भवता सह मित्रत्वमिति । यत्कारणम् । अस्माकमीदृशानि व्यसनान्युत्पद्यन्त इति । तानि तु त्वया नाथेनायत्नमपासनशक्यानि 24 भवन्ति । किं बहुना ।
गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम् । छाद्यमानापि सौगन्ध्यमुद्वमत्येव मालती ॥ १७ ॥
22 तच्छ्रुत्वा हिरण्यो ऽब्रवीत् । भद्र | स्वभावच पलस्त्वम् । उक्तं च । आत्मनश्चपलो नास्ति कुतो ऽन्येषां भविष्यति ।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ १८ ॥
30 अपि च ।
उत्पथेन क्वचिद्याति क्वचिन्मार्गेण गच्छति । मुहुरुष्णो मुहुः शीतश्चपलचपलायते ॥ १९ ॥
H

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164