Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 41
________________ 25 OR, THE LION AND THE BULL. Book I. Tale vii: Louse and flea. Frame-story. भोक्तृभूताः । तथाप्यसौ यदि स्वयमनर्थ न करिष्यति । ततो ऽन्यस्मादुत्पादयिष्यति । सिंहः । का शक्तिरस्य स्वतो ऽपकर्तु परतो ऽपकर्तुं वा । दमनकः । भवांस्तावदने३ कगजयुद्धरदनसंनिपातव्रणशबलत्वान्नित्यमित्थं भूतः । अयं त्वत्समीपवासी प्रकीर्णविएमूत्रः । तदनुषङ्गात्कृमयः संभविष्यन्ति । *युष्मच्छरीरसामीप्यात्क्षतविवरानुसा- | रिणो ऽन्तः प्रवेक्ष्यन्ति ।* तथा त्वं विनष्ट एव । उक्तं च । " मा त्वविज्ञातशीलाय कश्चिद्दद्यात्प्रतिश्रयम् । टिष्टिभस्य तु दोषेण हता मन्दविसर्पिणी ॥ ५ ॥ पिङ्गलकः । कथमेतत् । दमनकः । A 58 ॥ कथा ७॥ अस्ति कस्यचिद्राज्ञः सर्वगुणोपेतमनन्यसदृशं शयनम् । तस्मिन्प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म । अथ 12 तस्मिंष्टिण्टिभो नाम मत्कुणो वायना प्रेरितः संनिपतितः । स तु तच्छयनमतिसूक्ष्मोत्तरच्छदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु सुरभि च दृष्ट्वा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना 15 इतश्चेतः परिभ्रमन्कथमपि तया मन्दविसर्पिण्या समेतः । तयाभिहितः । कुतस्त्वमस्मिन्नयोग्याधिवास आगतः । अपगम्यतामस्मादिति । मत्कुणः । आर्ये । मया तावदिहानेकप्रकाराणि मां18 सान्यास्वादितानि ब्राह्मणक्षत्रियविट्छद्रान्तःस्थानि रुधिराणि च। तानि तु रूक्षाणि पिच्छिलान्यतुष्टिकराण्यमनोज्ञानि । यः पुनरस्य शयनस्याधिष्ठाता। तस्य मनोरमममृतोपममसृग्भविष्यति । 1 अजस्रं भिषग्भिः प्रयत्नादौषधाद्युपक्रमाद्वातपित्तश्लेष्मनिरोधादनामयतया स्निग्धपेशलद्रवैः सखण्डगुडदाडिमत्रिकटुकपटुभिः स्थलजजलजखेचरबलवत्प्रधानपिशितोपबृंहितैराहारैरुपचितं रु५ धिरं रसायनमिव मन्ये । तच्च सुरभि पुष्टिकरं चेच्छाम्यहं त्वत्प्र

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164