________________
25
OR, THE LION AND THE BULL. Book I.
Tale vii: Louse and flea.
Frame-story.
भोक्तृभूताः । तथाप्यसौ यदि स्वयमनर्थ न करिष्यति । ततो ऽन्यस्मादुत्पादयिष्यति । सिंहः । का शक्तिरस्य स्वतो ऽपकर्तु परतो ऽपकर्तुं वा । दमनकः । भवांस्तावदने३ कगजयुद्धरदनसंनिपातव्रणशबलत्वान्नित्यमित्थं भूतः । अयं त्वत्समीपवासी प्रकीर्णविएमूत्रः । तदनुषङ्गात्कृमयः संभविष्यन्ति । *युष्मच्छरीरसामीप्यात्क्षतविवरानुसा- | रिणो ऽन्तः प्रवेक्ष्यन्ति ।* तथा त्वं विनष्ट एव । उक्तं च ।
" मा त्वविज्ञातशीलाय कश्चिद्दद्यात्प्रतिश्रयम् ।
टिष्टिभस्य तु दोषेण हता मन्दविसर्पिणी ॥ ५ ॥ पिङ्गलकः । कथमेतत् । दमनकः ।
A 58
॥ कथा ७॥ अस्ति कस्यचिद्राज्ञः सर्वगुणोपेतमनन्यसदृशं शयनम् । तस्मिन्प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म । अथ 12 तस्मिंष्टिण्टिभो नाम मत्कुणो वायना प्रेरितः संनिपतितः । स तु
तच्छयनमतिसूक्ष्मोत्तरच्छदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु सुरभि च दृष्ट्वा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना 15 इतश्चेतः परिभ्रमन्कथमपि तया मन्दविसर्पिण्या समेतः । तयाभिहितः । कुतस्त्वमस्मिन्नयोग्याधिवास आगतः । अपगम्यतामस्मादिति । मत्कुणः । आर्ये । मया तावदिहानेकप्रकाराणि मां18 सान्यास्वादितानि ब्राह्मणक्षत्रियविट्छद्रान्तःस्थानि रुधिराणि च। तानि तु रूक्षाणि पिच्छिलान्यतुष्टिकराण्यमनोज्ञानि । यः पुनरस्य शयनस्याधिष्ठाता। तस्य मनोरमममृतोपममसृग्भविष्यति । 1 अजस्रं भिषग्भिः प्रयत्नादौषधाद्युपक्रमाद्वातपित्तश्लेष्मनिरोधादनामयतया स्निग्धपेशलद्रवैः सखण्डगुडदाडिमत्रिकटुकपटुभिः स्थलजजलजखेचरबलवत्प्रधानपिशितोपबृंहितैराहारैरुपचितं रु५ धिरं रसायनमिव मन्ये । तच्च सुरभि पुष्टिकरं चेच्छाम्यहं त्वत्प्र