________________
26
Book I. THE ESTRANGING OF FRIENDS; Tale vii: Louse and flea.
Frame-story.
Tale viii: Blue jackal.
सादादास्वादयितुमिति । अतो ऽसौ मन्दविसर्पिण्याह । असंभाव्यमेतत्त्वद्विधानामग्निमखानां दंशवृत्तीनाम् । अपगम्यताम8 स्माच्छयनात् । ततो ऽसौ तस्याः पादयोर्निपतितः । सा तु दाक्षिण्यात्तथा नामेति प्रतिपन्ना । किंतु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्तव्यमिति । सो ऽब्रवीत् । को ऽस्य कालः । अन6 भिज्ञो ऽहमपरिचितत्वात् । सा त्वकथयत् । मधुपानश्रमागतनिद्रस्य रतिविलासनिर्भरसुप्तस्य च शनैर्मृदुतया भवता विचारणीयम् । मदश्रमनिद्रापरीतकायो नाशु प्रबुध्यत इति । एवमवस्था• पिते प्रथमप्रदोष एवाकालज्ञेन दष्टः । असावपि पार्थिव उल्मकदग्ध इव संलीनकुक्षिप्रदेशः ससंभ्रममुत्थायाह । अहो । दष्टो ऽस्मि केनापि । अथ मत्कुणश्चकितत्वाद्राजवचनं श्रुत्वा शयनाद12 वतीर्यान्यद्विवरमाश्रितः । शय्यापालैरपि स्वाम्यादेशात्सुनिपुण
मन्विषद्भिर्वस्त्रं परिवर्तयद्भिरन्तींना मन्दविसर्पिणी समासादिता व्यापादिता च ।
A59
15 अतो ऽहं ब्रवीमि । मा त्वविज्ञातशीलाय दद्यात्कश्चित्प्रतिश्रयमिति । अन्यच्च । पादानां वयं क्रमागता भृत्वाः । तदलं ह्यस्यातिविसम्मेण । उक्तं च ।
त्यक्ता आभ्यन्तरा येन बाह्याचाभ्यन्तरीकृताः ।। ___18 स भूमौ निहतः शेते मूर्खश्चण्डरवो यथा ॥ ८६ ॥ पिङ्गलकः । कथमेतत् । सो ऽब्रवीत् ।
A60
॥ कथा ८॥ 1 अस्ति कस्मिंश्चिन्नगरसमीपे संनिकृष्टविवराभ्यन्तरशायी जम्बुकश्चण्डरवो नाम । स कदाचिदाहारमन्वेषमाणः क्षपामासाद्य क्षुत्क्षामगलः संमीलितलोचनः परिभ्रमन्नगरं प्रविष्टः । तन्नगरवा