SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ A61 A 62 A 63 27 Frame-story. सिभिश्च सारमेयैस्तीक्ष्णदशनकोटिविलुप्यमानावयवो भयभैरवफेत्काररवपूरितदिग्विवर इतस्ततः प्रस्खलन्पलायमानः कस्मिंश्चिदज्ञानान्नीलीकलशे संनिपतितः । श्वगणश्च यथागतं प्रायात् । असावपि कृच्छ्रेणायुःशेषतयास्मान्नीलीकलशात्समुत्तस्थौ । अथास्य तच्छरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः क्रोष्टुकगणाः को ऽयमिति भयतरलदृशः सर्वा दिशः प्रदुद्रुवुः । असावप्यचिन्तयत् । नूनमिमां स्वरूपविकृतिं दृष्ट्वैते पलायन्त इति । अथ धीरचित्तस्ताञ्छनैरवादीत् । अलं संभ्रमेण । अहमाखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः क्षितितलमागत इति । 6 3 9 12 OR, THE LION AND THE BULL. Book I. 15 Tale viii: Blue jackal. अथ तद्वचनमाकर्ण्य सिंहव्याघ्रचित्रकवानरशशहरिणवृषदंशजम्बुकादयः श्वापदगणास्तं प्रणेमुः । प्रतिदिनं च केसरिकरजकुलिशदारितमत्तेभपिशितैरापूर्यमाणकुक्षिः कक्षमिव तं जम्बुकपूगं बहिः कृत्वा सिंहव्याघ्रादीनासन्नवर्तिनश्चकार । एकदा त्वसौ विविधपिशितनाशितक्षुद्दिक्षु स्थितानां क्रोष्टुकानां क्रोशतां निनादं श्रुत्वा त्वरिततरमुच्चैर्निननाद । अतस्ते सिंहादयस्त्रपया भूभागदृष्टिभाजः कष्टमहो । वञ्चिताः स्मः ' क्रोष्टायमित्यवधार्य रुषा तं परुषगिरं नाशितवन्त इति । 18 अतो ऽहं ब्रवीमि । त्यक्ता आभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृता इति । आख्याते चाख्याने पिङ्गलक आह । भद्र । कस्तस्य युद्धमार्ग इति । दमनकः । अन्यदासौ स्रस्ताङ्गः पादान्तिकमागच्छति । अद्य यदि शृङ्गाग्रप्रहरणाभिमुखो योद्धु21 चित्तः सचकितश्चोपश्चिष्येत् । तत्पादैरवगन्तव्यम् । द्रोग्धुबुद्धिरयमिति । एवमुक्का संजीवकंसकाशं प्रयातः । तस्यापि द्रोग्धुमतिरधृतिपरीतमात्मानमदर्शयत् । तेन चाभिहितः । भद्र । कुशलमिति । दमनकः । कुतः खलु कुशलमनु24 जीविनाम् । कस्मात् । संपत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्वजीविते ऽप्यविश्वासस्तेषां ये राजसंश्रिताः ॥ ८७ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy