________________
Book I. THE ESTRANGING OF FRIENDS;
Frame-story: Lion and bull.
A 64
अप्यपिजीविका * * * * * * * * * * ।
* * * * * * * * * * * * * * * ॥८८ ॥ 3 मुटु चेदमुच्यते ।
आचार्या नरपतयश्च तुल्यशीला न ह्येषां परिचितिरस्ति सौहृदं वा । 6 शुश्रूषां चिरमपि संचितां प्रयत्ना
त्संक्रुद्धा रज व नाशयन्ति मेघाः ॥ ८९ ॥ अपि च । 9 को ऽर्थान्प्राप्य न गर्वितो भुवि नरः कस्यापदो ऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मन: को नाम राज्ञां प्रियः ।
क: कालस्य न गोचरान्तरगतः को ऽर्थी गती गौरव __12 को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ ९० ॥ तत्सर्वथा ।
कः काल: कानि मित्राणि को देशः को व्ययागमौ । ____15 को वाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ९१ ॥
हृदयान्तर्निहितभावस्य तस्य वचनं श्रुत्वा संजीवको ऽब्रवीत् । भद्र । अथ किम् । दमनकः । भवांस्तावन्मम सुहृत् । अवश्यं च मया तव हितमाख्येयम् । 18 स्वामी पिङ्गलकस्तवोपरि द्रोग्धुमतिः । तेन चाभिहितम् । संजीवकं हत्वा सर्वक्रव्यादास्तदामिषेण तर्पयामीति ।
तच्छृत्वासी परं विषादमगमत् । दमनकः । यदत्र करणीयम् । तदहीनकालं 21 संचिन्त्यतामिति । पूर्वकालं श्रद्धेयवचनत्वाच्च दमनकस्य सुतरामाविपहृदयः परं भयमुपागतः संजीवकः । मुष्ठु खत्खिदमुच्यते ।
दुर्जनगम्या नार्यः प्रायेणापात्रभृनवति राजा । 24 कृपणानुसारि च धनं देवो गिर्युदकवर्षी च ॥ ९२ ॥ एवं चाचिन्तयत् । कष्टं भोः । किमिदमापतितं ममेति । अपि च ।
आराध्यमानो बहुभिः प्रकारै27 राराध्यते नाम किमत्र चित्रम् ।
अयं वपूर्वः प्रतिमाविशेषो
यः सेव्यमानो रिपतामपैति ॥ ९३ ॥ 30 तत्सर्वथाशक्यो ऽयमर्थः ।।
निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्थापगमे प्रसीदति ।
A 64b
A65
A 66