Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 66
________________ 50 Book I. THE ESTRANGING OF FRIENDS%3B Talo xvii: How mico ate iron. Frame-story. A 115 परदोषकथाविचक्षणः स्वगुणाख्यापननित्यतत्परः । ३ स्वयमेव हि वेत्ति पण्डितः कुलशीलं कथयत्यपण्डितः ॥ १७२ ॥ अपि च । 6 नूनं तस्थास्थपुरे जिह्वा वज्रोपमा मनुष्यस्य । यस्य परदोषकथने सद्यो न विदीर्यते शतधा ॥ १७३ ॥ तत्सर्वथा परीक्ष्य परस्वभावं मनुष्येण सङ्गः कार्यः । उक्तं च । ५ विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् । ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा वर्त्यः ॥ १७४ ॥ A 116 तन्न केवलमात्मीयवंशविनाशस्त्वया प्रयतितः । अधना स्वामिनो ऽपि व्यभिच__ 12 रितम् । तद्यतस्त्वं स्वं स्वामिनमिमामवस्था प्रापयसि । तस्य तवान्यस्तृणभूतः । कस्मात् । तुलां लोहसहस्रस्य खादते यत्र मूषकः । 15 गजं तच हरेच्च्येनो दारके को इत्र विस्मयः ॥ १७५ ॥ दमनकः । कथमेतत् । करटकः । A 117 ॥ कथा १७॥ 18 अस्ति कस्मिंश्चिदधिष्ठाने क्षीणबान्धवो वणिक्सुतः। स देशान्तरमर्थोपार्जननिमित्तं प्रस्थितः । तस्य तुला लोहसहस्रकृता वि द्यते । सो ऽन्यस्मिन्वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय 21 प्रायात् । क्षीणभाग्यत्वाच्च तेन बहुनापि कालेन न किंचिदासादितम् । प्रत्यागतश्च तां तुलां तस्मात्प्रार्थितवान् । तेनोक्तं च । सा मूषकैर्भक्षितेति । अथासावचिन्तयत् । विस्मयनीयमेतत् । कथं - लोहसहस्रमयीं तुलां मूषका भक्षयिष्यन्तीति। अन्तर्लीनमवहस्याब्रवीत् । अवश्यमेतदेवम् । यत्कारणम् । वृष्यं स्वादु मृदु च लोहं कथमाखवो न भक्षयिष्यन्ति । इति प्रतिपन्नवाक् ।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164