________________
50
Book I. THE ESTRANGING OF FRIENDS%3B
Talo xvii: How mico ate iron.
Frame-story.
A 115
परदोषकथाविचक्षणः
स्वगुणाख्यापननित्यतत्परः । ३ स्वयमेव हि वेत्ति पण्डितः
कुलशीलं कथयत्यपण्डितः ॥ १७२ ॥ अपि च ।
6 नूनं तस्थास्थपुरे जिह्वा वज्रोपमा मनुष्यस्य ।
यस्य परदोषकथने सद्यो न विदीर्यते शतधा ॥ १७३ ॥ तत्सर्वथा परीक्ष्य परस्वभावं मनुष्येण सङ्गः कार्यः । उक्तं च ।
५ विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा वर्त्यः ॥ १७४ ॥ A 116 तन्न केवलमात्मीयवंशविनाशस्त्वया प्रयतितः । अधना स्वामिनो ऽपि व्यभिच__ 12 रितम् । तद्यतस्त्वं स्वं स्वामिनमिमामवस्था प्रापयसि । तस्य तवान्यस्तृणभूतः । कस्मात् ।
तुलां लोहसहस्रस्य खादते यत्र मूषकः । 15 गजं तच हरेच्च्येनो दारके को इत्र विस्मयः ॥ १७५ ॥ दमनकः । कथमेतत् । करटकः ।
A 117
॥ कथा १७॥ 18 अस्ति कस्मिंश्चिदधिष्ठाने क्षीणबान्धवो वणिक्सुतः। स देशान्तरमर्थोपार्जननिमित्तं प्रस्थितः । तस्य तुला लोहसहस्रकृता वि
द्यते । सो ऽन्यस्मिन्वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय 21 प्रायात् । क्षीणभाग्यत्वाच्च तेन बहुनापि कालेन न किंचिदासादितम् । प्रत्यागतश्च तां तुलां तस्मात्प्रार्थितवान् । तेनोक्तं च । सा मूषकैर्भक्षितेति । अथासावचिन्तयत् । विस्मयनीयमेतत् । कथं - लोहसहस्रमयीं तुलां मूषका भक्षयिष्यन्तीति। अन्तर्लीनमवहस्याब्रवीत् । अवश्यमेतदेवम् । यत्कारणम् । वृष्यं स्वादु मृदु च लोहं कथमाखवो न भक्षयिष्यन्ति । इति प्रतिपन्नवाक् ।