SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale xvii: How mice ate iron. Frame-story. ___ असावपि सुपरिहृष्टहृदयः पाद्यादिपुरसरां तस्य पूजां कर्तुमारब्धवान्भोजने च प्रार्थितवान् । । तस्य च नातिदूरे नदी । तत्र स्नानाभ्युद्यतस्य च तस्य स्वीयं पुत्रमेकमामलकस्नानशाटिकासमेतं पृष्ठतः प्रेषितवान् । असावपि प्रत्यागच्छन्दारकमन्यस्मिन्मित्रगृहे सुगुप्तं कृत्वा प्रविष्टः । अथ भो6 जनसमये सार्थवाहो दारकमदृष्ट्वा समाकुलमनाः शङ्कितहृदयश्च तमपृच्छत् । क्वासी दारकस्तवानुपदप्रेषितः । इह न प्रविष्ट इति । अथ सो ऽब्रवीत् । श्येनेनापहृत इति । तच्छ्रत्वा परमाविग्नो निर्द• यीभूतश्च तं बाही गृहीत्वा धर्मस्थानं नीतवान् । आह च । परित्रायध्वम् । अनेन मे दारकः क्वापि गोपित इति । पृष्टश्चासौ प्राडिवाकैः । किमेतत् । कथ्यतामिति । स विहस्याब्रवीत् । श्येनेना12 पहृत इति । ततस्तैर्विस्मितमनोभिरभिहितः । कथं श्येनो दारक मपहरिष्यतीति । धर्माधिकृतैस्तथ्यं पृच्छयमानो ऽब्रवीत् । किमत्र चित्रम् । यत्र तुला लोहसहस्रस्यास्य गेहे मदीया मूषकैर्भक्षिता। 16 तत्र कथं दारकः श्येनेन नापहियत इति । तच्च श्रुत्वा प्रतिपादितवन्तस्ते प्राडिवाकाः परस्परस्य तत्तुलातद्दारकदानमिति । A118 अतो ऽहं ब्रवीमि । तुलां लोहसहस्रस्खेति । तत्किं पशोरिव नि:संज्ञस्योपदि__18 ष्टेन । श्रुतवति प्रज्ञा जले तेलं रक्ते विषं सत्सु संगतं प्रेम प्रियाम् गुह्यमविनीतेषु विसर्पितं कीर्तिमतां च लोके साधुजन्न । कस्मात् । न जातिधर्मः पुरुषस्य साधुता 21 चरित्रमूलानि यशांसि देहिनाम् । अकीर्तिरापच्छतजालकर्षणी कृतघ्नमन्वेति परत्र चेह च ॥ १७६ ॥ A 1194 यच्चाजस्रं परार्ध्वगुणनिन्दापरो ऽसि । तदपि त्वां प्रकृतिराकर्षति । कथम् । प्रायेणेह कुलान्वितं कुकुलजाः स्त्रीवल्लभं दुर्भगा दातारं कृपणा ऋजूननृजवस्तेजखिनं पूतराः ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy