SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. A120 A 121 वैरूप्योपहताच कान्तवपुषं वृत्तिस्थितं दुःस्थिता नानाशास्त्रविशारदं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ १७७ ॥ 3 अथवा तस्य युक्तमुपदेष्टुम् । यः सचदुक्तं गृह्णाति । त्वं पाषाण व निश्चेष्टः । किं तवोपदिष्टेन । मूर्ख । त्वया सह संवासो ऽपि न श्रेयान् । अन्यथा कदाचित्वत्संपर्कादस्माकमप्यनर्थः स्यात् । उक्तं च ।। 6 लभते पुरुषस्तांस्तान्गुणदोषान्साध्वसाधुसंपर्कात् । नानादेशविचारी पवन व शुभाशुभान्गन्धान् ॥ १७८ । अथवा। . भेदनामाचकुशल: सौहार्दानां विनाशनः । प्रमाणं दमनो यत्र न तत्कार्य शुभं भवेत् ॥ १७९ ॥ अपि च । पिशुनानां न किंचित्स्वार्थमुपपद्यते विमाशादृते । अन्त्यास्वप्यवस्खासु 12 नेवाकार्य व्यवस्यन्ति साधवः कर्तुम् । तथा हि । यदकार्यमकार्यमेव त न बुधस्तच मतिं प्रयोजयेत् । 15 परयापि तृषा पिपासितै न हि रथ्यागतमम्ब पीयते ॥ १८० ॥ इत्युक्त्वा तत्सकाशादपेतः करटकः । ____ 18 अथ व्यापाद्य संजीवकं पिङ्गलक एकान्ते उसृग्दिग्धं पाणिं प्रमज्य चेदमब्रवीत् । कष्टम् । महदिदमकृत्यं मया कृतं द्वितीयमिव शरीरं संजीवकं व्यापादयता । साधु चेदमुच्यते । 21 भूम्येकदेशस्य गुणान्वितस्य भृत्वस्य वा बुद्धिमत: प्रणाशे । भृत्यप्रणाशे मरणं नृपाणां 24 नष्टापि भूमि: सुलभा न भृत्यः ॥ ११ ॥ तमेवमधृतिपरीतमभिवदन्तं पिङ्गलकं श्रुत्वा शनैरुपविष्य दमनको ऽब्रवीत् । कतर एष न्यायो नयो वा । यत्सपत्नं हत्वाधृतिः क्रियते । उक्तं च । 27 पिता वा यदि वा धाता भार्या पुचो ऽथवा सुहत् । प्राणद्रोहे वर्तमाना हन्तव्या भूतिमिच्छता ॥ १२ ॥ राजा घृणी ब्राह्मण: सर्वभक्षः 30 स्त्री चावशा दुष्प्रकृतिः सहायः । प्रेष्य: प्रतीपो ऽधिकृतः प्रमादी सर्वे त्याज्या यश्च कृत्यं न वेत्ति ॥ १३ ॥ 1122 A 123 A 124
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy