SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ A 111 A 112 A113 A114 49 Frame-story. कष्टमिदमापतितम् । अभिहितं च । पुनरपि विषया लभ्यन्ते । न तु प्राणाः । पुनरागमिष्यामि । इत्यत्रैव वृक्षमूले ऽवस्थापितम् । अधुनावश्यं राजवशात्समर्पितव्यम् । किंत्वस्मात्स्थानादेकान्ते ऽवस्थानं कुरुध्वम् ' यावदहमेनं निधिपालं कृष्णसर्प पराजयामि । इत्युक्त्वाहार्यैः शुष्कदारुपर्णनिचयैर्वृक्षविवरमापूर्याग्निमादीपयितुमारब्धः । दुष्टबुद्धिस्त्वधोमुखमेकेनाक्ष्णा विलोक्य वृक्षविवरान्तर्गतं वणिक्पुत्रं दृष्ट्वा व्यथितमना अभवत् । प्रदीप्ते च वह्नौ समन्तत उज्ज्वलीभूताद्वृक्षविवरात्स्फटिततनुः प्लुष्टकेशः स्रस्तत्व• ग्यदा जातो वणिक् । तदा भूमौ निपतितः । तत्तु महद्वैकारिकं दृष्ट्वा किमिदमिति परं विस्मयमुपगताः । किंचिज्जीवितं च प्रत्यक्षमभिज्ञाय वणिक्पुत्रं पप्रच्छुः । किमि - दमध्यवसितं भवतेति । ततो ऽसावब्रवीत् । अनेन दुष्पुत्रेणाहमवस्थामिमां प्रापित इति । एवमभिवदन्पञ्चत्वमुपगतः । अनन्तरं धर्माधिकृतास्तमर्थं ज्ञात्वाभिहितवन्तः । दुष्टबुद्धिरयं पापः शूले ऽवतंस्यतामिति । 3 6 12 OR, THE LION AND THE BULL. Book I. Tale xv: Good-heart and Bad-heart. 15 अतोऽहं ब्रवीमि । दुष्टबुद्धिरबुद्धिखेति । आख्याते चाख्याने पुन: करटको ब्र वीत् । मूर्ख । अतिपाण्डित्येन ते दग्धो वंशः । साधु चोच्यते । 18 लवणजलान्ता नयः स्त्रीभेदान्तानि बन्धुहृदयानि । पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि च कुलानि ॥ १६९ ॥ अपि च । यस्य तावन्मनुष्यस्यैकस्मिन्नेव मुखे जिह्वाद्वयम् । कस्तस्य विश्वासमियात् । 21 द्विजिहमुद्वेगकरं क्रूरमेकान्तनिष्ठुरम् । खलस्याहेश्च वदनमपकाराय केवलम् ॥ १७० ॥ तममाप्यनेन चरितेन भयमुत्पन्नम् । कस्मात् । 24 मा गाः पिशुनविस्रम्भं ममायं पूर्वसंभृतः । चिरकालोपचीर्णो ऽपि दशत्येव भुजंगमः ॥ १७१ ॥ कथं चाजस्रं परपराभवग्रहणेन मोद्विजसि । अथवा स्वभाव एषः । G
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy