SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 48 3 6 9 12 Book I. THE ESTRANGING OF FRIENDS; Tale xvi: Heron, serpent, and mongoos. 18 Tale xv: Good-heart and Bad-heart. ॥ कथा १६ ॥ अस्ति ' कस्मिंश्चिदर्जुनवृत्ते बकदंपती प्रतिवसतः स्म । तत्र च वृक्षविवरानुसारी महाकायो ऽहिरसंजातक्रियाण्येवापत्यानि भक्षयति स्म । तेन च निर्वेदेन नष्टसंज्ञावाहारक्रियामुत्सृज्य जलाशयैकदेशे विमनस्कावासाते । अथ तत्रैकः कुलीरकस्तमाह । माम ' किमद्याप्याहारो नानुष्ठीयत इति । बकः । अधृतिपरीतस्य मे कुत आहाराभिलाष इति । यतो ऽसावाह । किंलक्षणसमुत्थाधृतिः । स तु तस्मै यथावृत्तमपत्यभक्षणमाख्यातवान् । कुलीरकस्तु तं समर्थितवान् । अहमुपायं तद्वधाय कथयामि । येयं नकुलवसतिः । एतत्प्रभृत्यविच्छिन्नपरंपरया मत्स्यपिशितं प्रकीर्यताम् यावत्सर्पवसतिः । ततस्त एवैनं घातयिष्यन्ति । तथा चानुष्ठिते नकुलैः पिशितमार्गानुसारिभिः पूर्ववैरक्रियामनुस्मरद्भिः खण्डशो हिं कुर्वद्भिः पूर्वदृष्टमार्गमाधावद्भिर्बकावासं गत्वा बकस्य शेषापत्यभक्षणं कृतमिति । " 15 अतोऽहं ब्रवीमि । उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् । इति ब्रुवन्नपि तेनासौ नीत्वा स्थापितो वृक्षविवरे । अथ प्रभातसमये ऽधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्रावितेन वनस्पतिना यथाप्रस्तुतमभिहितम् । धर्मबुद्धिनार्थे ऽपहृत इति । तच्च श्रुत्वा धर्मबुद्धिश्चिन्तयामास । कथमवाक्पादपो वाचं व्याहरिष्यति । तत्कारणेनात्र भवितव्यम् । सर्वथा बुद्धिसाध्यमे - 21 तत् । अथ धर्मस्थानीयानाह । अहो विस्मयः । अद्याप्यविप्लुत एव लोके धर्मबुद्धिरहं विजने ऽस्मिन्वन एकाक्यागम्य तद्द्रव्यं गृहीतवान् । अथापश्यमहिमतिकायमायान्तम् । चिन्तितं च मया ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy