SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale xv: Good-heart and Bad-heart. भजावः । तत्किं मया कृतं भवति । शेषः षडिरपहृतैः समस्तान्येवासादयामि । एवं मत्वैकाकी भूत्वा तामर्थमात्रामपनीय प्रदेश ७ समीकृत्य मासातिक्रान्ते काले धर्मबुद्धिमभिहितवान् । भद्र । समविभागं शेषवित्तस्य कुर्व इति । प्रतिपन्ने च धर्मबुद्धिना सह गत्वा तमेवोद्देशं खातकर्म कर्तुमारब्धः । खन्यमाने च यदा न • दृश्यते । तदा प्रथमतरं धृष्टतया दुष्टबुद्धिः पाषाणेनात्मनः शिरो ऽताडयदब्रवीच्च ससंभ्रमम् । क्व तद्ब्रह्महृदयम् । धर्मबुद्धे । नूनं त्वयापहृतमिति । एवं परस्परशङ्कया विवदमानौ धर्मस्थानमुपा७ गतौ । आवेदिते च तस्मिन्नर्थे ऽवगते ऽव्यक्तव्यवहारदुश्छेदतया संनिरुद्धौ। पञ्चरात्राभ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम् । सा12 क्षिणो मम सन्त्यत्रव्यवहारदीनाराणामिति । तैस्तु व्यवहारनिवर्तनाथ पृष्टः । कस्ते साक्षी। दर्शयस्वेति । सो ऽब्रवीत् । यस्यैव वृक्षस्याधस्तास्थापितं द्रव्यम् । तेनैव विभावयामीति । अथ ते 15 विस्मयमुपगताः । कथं वनस्पतिर्मन्त्रयिष्यतीति । कृतप्रतिभुवी स्वगृहं विसर्जितौ। __ अथ दुष्टबुद्धिना स्वगृहं गतेन पिताभिहितः । तात । मद्धस्त18 गतास्ते पणाः । किंतु वाङ्मात्रावबद्धास्तिष्ठन्ति । अहं तु वामद्य रात्रौ वृक्षविवरेऽस्मिन्स्थापयामि। प्रभाते धर्माधिकृतसमक्षं पृष्टस्तं विभावयेति । ततस्तेनाभिहितम् । पुत्र । विनष्टावावाम् । किं का॥ रणम् । अनुपाय एषः । तथा च । उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैक्षिताः सुताः ॥ १६८ ॥ 4 सो ऽब्रवीत् । कथमेतत् । असावाह ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy