Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 33
________________ 17 OR, THE LION AND THE BULL. Book I. Tale iiic: Cuckold weaver. 3 Frame-story. जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका तन्त्रवायेन त्रयो ऽनर्थाः स्वयं कृताः ॥ ५५ ॥ समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति । अतो ऽहं ब्रवीमि । जम्बुको हुडुयुद्धेनेति । करटकः । अथ किमत्र प्राप्तकालं भवान्मन्यते । दमनकः । भद्र । एवमप्यवस्थिते बुद्धिमतां प्रत्युद्धारसामर्थ्यमस्त्येव । उक्तं च । • सन्नस्य कार्यस्य समुद्भवार्थ मागामिनो ऽर्थस्य च संग्रहार्थम् । अनर्थकार्यप्रतिषेधनार्थं 9 यो मन्त्र्यते ऽसौ परमो हि मन्त्रः ॥ ५६ ॥ तदयं पिङ्गलको महाव्यसने वर्तते । अस्माद्वियोज्यः । कस्मात् । व्यसनं हि यदा राजा मोहात्संप्रतिपद्यते । 12 विधिना शास्त्रदृष्टेन भृत्यैर्वार्यः प्रयत्नतः ॥ ५७ ॥ करटकः । कस्मिन्स्वामी पिङ्गलको व्यसने वर्तते । इह हि सप्त व्यसनानि राज्ञाम् । स्त्रियो ऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । 15 महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ५८ ॥ दमनकः । भद्र । एकत्र सङ्गो व्यसनमभिधीयते । करटकः । कथमेकमेवेद व्यसनं भवति । दमनकः । पञ्च मूलव्यसनानि । तद्यथा । अभाव: प्रदोषः प्रसङ्गः 18 पीडनं गुणप्रतिलोमत्वमिति । करटकः । कस्तेषां प्रतिविशेषः । दमनकः । स्वाम्यमात्यमित्रजनपददुर्गकोशदण्डानामेकत र स्याप्यभावे व्यसनमभाव इत्यवगन्तव्यम् । यदा बाह्याः प्रकृतयो ऽन्तः प्रकृतयो वा प्रत्येकशो युगपद्वा प्रकुप्यन्ति । तद्व्यसनं प्रदोष 21 इति मन्तव्यम् । प्रसङ्गः पूर्वोक्त एव । तत्र कामजश्चतुर्वर्गः । कोपजस्त्रिवर्गः । तत्र कामजेर्व्याहत स्त्रिविधे कोपे प्रवर्तते । प्रकारवचनेनोच्यते क्रोधो वागर्थदण्डपारष्येण पराभिद्रोहबुद्धि: । क्रोधान्निरपेचः सर्वकृत् । दोषश्रावणं वाक्पारुष्यम् । 24 निरनुक्रोशः स्वविलोपो ऽर्थपारुष्यम् । निर्दयो वधबन्धच्छेदो दण्डपारुष्यम् । इति सप्तधा प्रसङ्गो वर्ण्यते । पीडनमष्टधा । देवाग्न्युदकव्याधिमरकविषूचिका दुर्भिक्षाण्यासुरी वृष्टिरिति । अतिवृष्टिरनावृष्टिर्ये । असावासुरीति विज्ञेया । एतदपि पीडनं 27 मन्तव्यम् । गुणप्रतिलोमता नाम । यदा संधिविग्रहयानासनसंश्रयद्वैधीभावानां षणां गुणानां प्रातिलोम्येन वर्तते । संधौ प्राप्ते विग्रहं करोति । विग्रहे प्राप्ते संधिं करोति । एवमेव शेषेष्वपि गुणेषु गुणप्रातिलोम्येन वर्तते । तदा तद्व्यसनं गुणप्रति20 लोमतेत्यवगन्तव्यम् । C

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164