________________
17
OR, THE LION AND THE BULL. Book I.
Tale iiic: Cuckold weaver.
3
Frame-story.
जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका तन्त्रवायेन त्रयो ऽनर्थाः स्वयं कृताः ॥ ५५ ॥ समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति ।
अतो ऽहं ब्रवीमि । जम्बुको हुडुयुद्धेनेति । करटकः । अथ किमत्र प्राप्तकालं भवान्मन्यते । दमनकः । भद्र । एवमप्यवस्थिते बुद्धिमतां प्रत्युद्धारसामर्थ्यमस्त्येव । उक्तं च । • सन्नस्य कार्यस्य समुद्भवार्थ
मागामिनो ऽर्थस्य च संग्रहार्थम् । अनर्थकार्यप्रतिषेधनार्थं
9 यो मन्त्र्यते ऽसौ परमो हि मन्त्रः ॥ ५६ ॥
तदयं पिङ्गलको महाव्यसने वर्तते । अस्माद्वियोज्यः । कस्मात् । व्यसनं हि यदा राजा मोहात्संप्रतिपद्यते ।
12 विधिना शास्त्रदृष्टेन भृत्यैर्वार्यः प्रयत्नतः ॥ ५७ ॥
करटकः । कस्मिन्स्वामी पिङ्गलको व्यसने वर्तते । इह हि सप्त व्यसनानि राज्ञाम् । स्त्रियो ऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । 15 महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ५८ ॥
दमनकः । भद्र । एकत्र सङ्गो व्यसनमभिधीयते । करटकः । कथमेकमेवेद व्यसनं भवति । दमनकः । पञ्च मूलव्यसनानि । तद्यथा । अभाव: प्रदोषः प्रसङ्गः 18 पीडनं गुणप्रतिलोमत्वमिति । करटकः । कस्तेषां प्रतिविशेषः । दमनकः । स्वाम्यमात्यमित्रजनपददुर्गकोशदण्डानामेकत र स्याप्यभावे व्यसनमभाव इत्यवगन्तव्यम् । यदा बाह्याः प्रकृतयो ऽन्तः प्रकृतयो वा प्रत्येकशो युगपद्वा प्रकुप्यन्ति । तद्व्यसनं प्रदोष 21 इति मन्तव्यम् । प्रसङ्गः पूर्वोक्त एव । तत्र कामजश्चतुर्वर्गः । कोपजस्त्रिवर्गः । तत्र कामजेर्व्याहत स्त्रिविधे कोपे प्रवर्तते । प्रकारवचनेनोच्यते क्रोधो वागर्थदण्डपारष्येण पराभिद्रोहबुद्धि: । क्रोधान्निरपेचः सर्वकृत् । दोषश्रावणं वाक्पारुष्यम् । 24 निरनुक्रोशः स्वविलोपो ऽर्थपारुष्यम् । निर्दयो वधबन्धच्छेदो दण्डपारुष्यम् । इति सप्तधा प्रसङ्गो वर्ण्यते । पीडनमष्टधा । देवाग्न्युदकव्याधिमरकविषूचिका दुर्भिक्षाण्यासुरी वृष्टिरिति । अतिवृष्टिरनावृष्टिर्ये । असावासुरीति विज्ञेया । एतदपि पीडनं 27 मन्तव्यम् । गुणप्रतिलोमता नाम । यदा संधिविग्रहयानासनसंश्रयद्वैधीभावानां
षणां गुणानां प्रातिलोम्येन वर्तते । संधौ प्राप्ते विग्रहं करोति । विग्रहे प्राप्ते संधिं करोति । एवमेव शेषेष्वपि गुणेषु गुणप्रातिलोम्येन वर्तते । तदा तद्व्यसनं गुणप्रति20 लोमतेत्यवगन्तव्यम् ।
C