________________
Book I. THE ESTRANGING OF FRIENDS%B Talo iv: Crows and serpent.
Tale v: Heron, fishes, and crab.
Frame-story.
A40b
तत्सर्वथायं संजीवकात्पिङ्गलको वियोज्यः । यस्मात्प्रदीपाभावात्प्रकाशाभावः । करटकः । असमर्थो भवान्कथं वियोजयिष्यतीति । दमनकः । भद्र ।
3 उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पममारयत् ॥ ५९ ॥ करटकः । कथं चैतत् । दमनकः ।
6 ॥ कथा ४॥ अस्ति कस्मिंश्चित्प्रदेशे वृक्षः । तस्मिंश्च वायसौ दम्पती प्रतिवसतः स्म । तयोस्तु प्रसवकाले तद्वक्षविवरानुसार्यसंजातक्रियाण्ये• वापत्यानि कृष्णसर्पो भक्षयति स्म । अथ तेनापकारनिर्वेदनादन्यवृक्षमूलवासिनं प्रियसुहृदं गोमायुमपृच्छयत । यथा । भद्र। किमेवं गते प्राप्तकालं भवान्मन्यते । बालघातित्वाच्च वृद्धयोरभाव 19 एवावयोः । गोमायुः।
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
अतिलौल्याद्वकः पश्चान्मृतः कर्कटविग्रहात् ॥ ६०॥ 15 वायसः । कथं चैतत् । गोमायुः ।
॥ कथा ५॥
अस्ति । कश्चिद्वको वृद्धभावात्सुखोपायां वृत्तिमाकाङ्क्षमाणः । 18 कस्मिंश्चित्सरःप्रदेशे ऽधतिपरीतमिवात्मनो रूपं प्रदर्शयन्नवस्थितः। तत्रानेकमत्स्यपरिवृत एकः कुलीरको ऽब्रवीत् । माम । किमद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बकः । अहं मत्स्यादः । तेनो1 पाधिना विना युष्मान्ब्रवीमि । मया युष्मानासाद्य पूर्व प्राणरक्षा कृता । संप्राप्तो ममाद्य वृत्तिविच्छेदः । अतो ऽहं विमनाः।