SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale v: Heron, fishes, and crab. कुलीरकः । माम। केन कारणेन । बकः। अद्य मत्स्यबन्धेरेतत्सर: समीपेनातिकामद्भिरभिहितम् । बहुमत्स्यो ऽयं ह्रदः। अस्मिञ्जालं • प्रक्षिपामः । नगरसमीपे ऽन्ये इदा अनासादिताः । तानासाद्य पुनरागमिष्याम इति कथयामासुः । तत् । भद्र । विनष्टा नाम यूयम् । अहमपि वृत्तिच्छेदादुत्सन्न एव । ततस्तैर्विज्ञप्तः । यथा । • यत एवापायः श्रूयते । तत एवोपायो ऽपि लभ्यते । तदहस्यस्मान्परित्रातुम् । बकः । अण्डजो ऽहमसमर्थो मानुषविरोधे । किंत्वस्माद्यदादन्यं जलाशयं युष्मान्संक्रामयिष्यामि। . ततस्तैर्विश्वासमुपगतैस्तात । भ्रातः । मातुल । मातुल. मां नय। मां नय। प्रथमतरं नयस्वेत्यभिहितम् । असावपि दुष्टमतिः क्रमेण नीत्वा कौशलादजस्रं तान्भक्षयन्परं परितोषमुपागतः । 12 कुलीरकस्तु मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम । मामपि तावदर्हसि मृत्युमुखात्परित्रातुमिति । स तु दुष्टात्माचिन्तयत् । निर्विरो ऽस्म्यनेनैकरसेन मत्स्यपिशितेन । एनमपि ता15 वद्रसविशेषमास्वादयिष्यामि । ततस्तमुत्क्षिप्य वियत्सर्वाम्भःस्थानानि परिहृत्यैकदेशे तप्तशिलायामवतीर्णः । कुलीरको ऽपि पूर्वभक्षितमत्स्यशरीरावयवराशिं दृष्ट्वैवाचिन्त18 यत् । निहता अनेन दुरात्मना प्रज्ञापूर्वकं ते मीनाः । तत्किमधुना प्राप्तकालम् । अथवा । ___ अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः । ॥ युध्यमानस्तदा प्राज्ञो म्रियेत रिपुणा सह ॥ ६१॥ .. अनभिज्ञो ऽपि बकः कुलीरकसंदंशग्रहस्य मौात्कुलीरकसकाशाच्छिरश्छेदमवाप्तवान् । कुलीरको ऽपि गृहीत्वा बकग्री* वामुत्पलनालवदाकाशगमनप्रसाधितचिह्नमार्गो मत्स्यान्तिकमेव
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy