SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ A 42 A 43 20 3 6 Book I. THE ESTRANGING OF FRIENDS; Tale v: Heron, fishes, and crab. Tale iv: Crows and serpent. Frame-story. Tale vi: Lion and hare. 15 प्रायात् । तैश्चाभिहितः । भ्रातः । क्वासौ माम इति । अथासावब्रवीत् । पञ्चत्वमुपगतः । तस्यैतद्दुरात्मनः शिरः । भक्षितास्तेनोपधिना बहवः स्वयूथ्या वः । सो ऽपि मत्सकाशाद्विनष्ट इति । अतो ऽहं ब्रवीमि । भक्षयित्वा बहून्मत्स्यानिति । अथ वायसो जम्बुकमाह । आवयोः किं प्राप्तकालं मन्यसे । गोमायुः । सुवर्णसूत्रमादायात्रावासके स्थाप्यताम् । असंशयं तत्स्वामी तं कृष्णसर्प घातयिष्यति । इत्युक्त्वा स सृगालो ऽपक्रान्तः । 9 अथ वायसः सुवर्णसूत्रान्वेषी राजगृहं प्रायात् । दृष्टं च तेनान्तः• पुरैकदेशे धौतवस्त्रयुगलोपरि सुवर्णसूत्रमुत्तममणिविरचितं महाईं प्रक्षाल्य चेटिकया स्थापितम् । तच्चावस्थाप्यान्यया सह कथां कर्तुमारब्धा । वायसस्तु तद्गृहीत्वा वियता शनैरात्मानं दर्शयन्स्व* मालयं प्रति प्रायात् । अथारक्षिपुरुषैः प्रासमुद्गरतोमरपाणिभिर्महता जवेन गत्वा वृक्षो ऽवलोकितः । यावत्तेन तत्स्वनीडे स्थापितम् । तत्रैकेनारोहता दृष्टम् । कृष्णभुजंगो वायसपोतान्भक्षयित्वा निद्रावशमगमत् । तेन चासौ सुप्त एव घातितः । तत्कृत्वा सुवर्णसूत्रमादाय गत इति । अतोऽहं ब्रवीमि । उपायेन हि यच्छक्यमिति । समाप्ते चाख्याने पुनराह । 18 यस्य बुद्धिर्बलं तस्य अबुधस्य कुतो बलम् । पश्य जातिबलः सिंहः शशकेन निपातितः ॥ ६२ ॥ करटकः । कथं चैतत् । दमनकः । ± ॥ कथा ६॥ अस्ति । कस्मिंश्चिद्वनान्तरे महान्सिंहः प्रतिवसति स्म । सो ऽजस्रं मृगोत्सादं कुरुते । अथ ते मृगाः सर्व एवाभिमुखाः प्रणतचित्ता
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy