________________
171276
हरिततृणाङ्करवक्त्रधारिणो ऽवनितलासक्तजानवस्तं मृगराजं विज्ञापयामासुः। भो मृगराज । किमनेन परलोकविरुद्धेन स्वामिनो नृशंसेन निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन । वयं तावद्विनष्टा एव ' तवाप्याहारस्याभावः । तदुभयोपद्रवः । तत्प्रसीद । वयं तु स्वामिन एकैकं वनचरं वारेण स्वजातिसमुत्थं प्रेषयामः । तथा ॰ कृते कालपर्ययाच्छशकस्य वारो ऽभ्यागतः । स तु सर्वमृगाज्ञापितो रुषितमनाश्चिन्तयामास । अन्तकरो ऽयं मृत्युमुखप्रवेशः । किमधुना प्राप्तकालं ममेति । अथवा बुद्धिमतां किमशक्यम् । अहमेवोपायेन व्यापादयामि सिंहम् । इति तस्याहारवेलां क्षपयित्वा गतः । असावपि क्षुत्क्षामकण्ठः क्रोधसंरक्तनयनः स्फुरद्वदनदशनसंघर्षदंष्ट्राकरालो लाङ्गूलास्फालनाकारभयकृत्तमाह । सुक्रुद्धैरपि किं क्रियते ऽन्यत्र प्राणवियोगात् । स त्वमद्य गतासुरेव । को ऽयं तव वेलात्ययः । शशकः । न ममात्मवशस्यातिक्रान्ता । स्वामिन् ' आहारवेला । सिंहः । केन विधृतो ऽसि । शशः । सिंहेनेति । तच्छ्रुत्वा परमोद्विग्नहृदयः सिंहो ऽब्रवीत् । कथमन्यो ऽत्र मद्भुजपरिरक्षिते वने सिंह इति । शशो बाढमित्याह ।
अथ सिंहो व्यचिन्तयत् । किमनेन हतेन कारणं मम । तं सपत्नं संदर्शयिष्यतीति । तं च व्यापाद्यैनं भक्षयिष्यामि । इति तमाह । मम तं दुरात्मानं दर्शयस्वेति । असावपि शशो ऽन्तर्लीनमवहस्य बृहस्पत्युशनसोर्नीतिशास्त्रं प्रमाणीकृत्य स्वार्थसिद्धये विमलज1 लसंपन्नं द्विपुरुषप्राप्योदकमिष्टकाचितं महान्तं कूपमदर्शयत् । असावप्यात्मकायप्रतिबिम्बानभिज्ञतया कुमार्गापन्नचित्तो ऽयमसौ सपत्न इति मत्वा सहसैव तस्योपरि संनिपतितो मौख्यत्प24 ञ्चत्वमगमत् ।
9
3
12
15
18
OR, THE LION AND THE BULL. Book I.
Tale vi: Lion and hare.