Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 68
________________ जइ - जीयकप्पो एवमाचार्येण सामान्यतः तयोरनुशिष्टिर्दातव्या नत्वेकमेव कञ्चन विशेष्य भणनीयम् ।।६०।। यत आह आयरिओ एगं न भणे अह एगं निवारि मासिअलहुअं। रागद्दोसविमुक्को सीअघरसमो अआयरिओ ।।६१।। (बृ०क० २७१६, नि०भा० २७९४) व्याख्या-आचार्यो नैकमधिकरणकारिणं भणति अनुशास्ति । अथाऽऽचार्य एकमेव निवारयति अनुशास्ति, न द्वितीयं ततो मासिकलघुकमापद्यते । असमाचारीनिष्पन्नमिति भावः । तस्मादाचार्यो रागद्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम वर्द्धकिरत्ननिर्मितं चक्रवर्त्तिगृहम् । तच्च वर्षासु निर्वातप्रवातम् , शीतकाले सोष्म, ग्रीष्मकाले शीतलम् । यथा तच्चक्रवर्तिनः सर्वत॒क्षमं तथा द्रमकादेरपि प्राकृतपुरुषस्य तत्सर्वत॒क्षममेव भवति । एवमाचार्यैरपि निर्विशेषैभवितव्यम् । अथ विशेषं करोति, तत इमे दोषाः । आचार्य आत्मीयोऽयमिति बुद्ध्या अमुंवारयति, मां तु परबुद्ध्या पश्यन्न वारयति । एवं पक्षरागेण क्रियमाणेनाऽननुशिष्यमाणः साधुर्बाह्यभावं गच्छति । यद्वा-सोऽननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् । अथवा तमाचार्यं परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया प्रेक्षसे, ततश्चात्मानमुद्बध्य यदि मारयति । तत आचार्यस्य पाराञ्चिकम् । अथोन्निष्क्रामति ततो मूलम् । तस्माद् द्वावपि समदृशाऽनुशासनीयौ अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक उपशान्तो न द्वितीयस्तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरःसरं क्षामितः परमसौ नोपशाम्यति । आहकथमेतदवगम्यते यथा नोपशान्त इति । उच्यते-यदा वन्द्यमानोऽपि वन्दनकं न प्रतीच्छति, यदि वा अवमरात्निकोऽसौ ततस्तं रत्नाधिकं न वन्दते । आद्रियमाणोऽपि वा नाद्रियते । एवमनुपशान्त उपलक्ष्यते । ततोऽनुपशान्तेऽपि य उपशान्तो भूत्वा आदरम् अभ्युत्थानं वन्दनं सम्भोजनं संवासंच करोति तस्याऽऽराधनाऽस्ति। यस्त्वेतानि न करोति अनुपशान्ततया तस्याऽऽराधना नास्ति । उपशमैकनिबन्धनत्वादाराधनायाः ।।६१।। अथोपशान्तमपि अधिकरणं ये पुनरुदीरयन्ति तेषां प्रायश्चित्ताभिधित्सया स्वरूपमाह खामिअविउसविआई अहिगरणाइंच जे उईरति । ते पावा नायबा तेसिं आरोवणा इणमो ।।६२।। व्याख्या-क्षामितानि वचसा मिथ्यादुष्कृतप्रदानेन शमितानि, व्युपशमितानि विविधम् अनेकधा मनसा व्युत्सृष्टानि, क्षामितानि तानि व्युपशमितानि चेति क्षामितव्युपशमितानि । एवंविधान्यधिकरणानि ये भूय उदीरयन्ति, ते पापाः साधुधर्मबाह्या ज्ञातव्यास्तेषां चेयमारोपणा प्रायश्चित्तमित्यर्थः ।।६२।। उप्पायगउप्पन्ने संबद्धे कक्खडे अ बाहू अ। आपिट्टणा स(सं?)मुच्छण समुघा(ग्घा?)यइवायणा चेव ।।६३ ।।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226