Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो थात्मानमित्थं भूषयति । न खल्वकामी मण्डनप्रियो भवतीति । तथा सम्पातिमानां मक्षिकादीनां प्रक्षालनजलादिषु निपततां वायोश्च वधो भवति । तथा प्लावनेन प्रक्षालनजलपरिष्ठापने पृथिव्यां रेल्लणेन भूतोपघातः पृथिव्याश्रितकीटिकादिसत्त्वोपमर्दो भवति । तस्मान्न ऋतुबद्धकाले वस्त्रं क्षालनीयम् । नन्वेते दोषा वर्षाकालादर्वागपि धावने सम्भवन्ति । ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि । तन्न, तदानीं चीवराऽप्रक्षालने अनेकदोषसम्भवात्। उक्तं चअइभार चुडण पणए सीअलपाउरणजीरगेलन्ने । ओहावण कायवहो वासासु अधोवणे दोसा ।।
(पिं०नि० ३२) वर्षाकालादगिपि यदि वासांसि न प्रक्षालयन्ते तदानीमतिभारः सर्वतः सलिलमयीसु वर्षासु क्लिन्नमलसम्पकर्ता वासांसि गुरुतरभाराणि भवन्ति । तथा धुडणं' ति । वाससामधावने वर्षासु जीर्णताभवनेन शाटो भवति । न च वर्षासु अभिनववस्त्रग्रहणं न चाधिकः परिग्रहस्ततो वस्त्राभावे ये दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्ते । तथा मलक्लिन्नेषु वस्त्रेषु पनकः सआयते । तथा वर्षासु शीतलीभूतवाससां प्रावरणे भुक्ताहारस्याजीर्णतायां ग्लानत्वमुपजायते । तथा च सति प्रवचनस्यापभाजना । यथा अहो ! बठरशिरोमणयोऽमी तपस्विनो ये नाम वर्षासु अप्रक्षालितानां वाससां परिभोगे मान्द्यमुपजायते इत्येतदपि नावबुध्यन्ते-ते पृथग्जनापरिच्छेद्यं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयम् । तथा भिक्षाद्यर्थं विनिर्गतस्य साधोर्मेघवृष्टौ मलिनवस्त्रकम्बलसम्पर्कतोऽकायविराधना । एते वर्षासु वर्षाप्रत्यासन्नकाले वस्त्रादीनामप्रक्षालने दोषास्तस्मादवश्यं वर्षाकालादर्वाग् वासांसि प्रक्षालनीयानि । ये च सम्पातिमसत्त्वोपघातादयो दोषाश्चीवरप्रक्षालने प्रोक्तास्तेऽपि सूत्रोक्तनीत्या यतनया प्रवर्तमानस्य न सम्भवन्ति । यो हि सूत्राज्ञामनुसृत्य यतनया सम्यग् प्रवर्तते स यद्यपि कथञ्चित् प्राण्युपमईकारी तथापि नासौ पापभाग् भवति । नापि तीव्रप्रायश्चित्तभागी । सूत्रे बहुमानतो यतनया प्रवर्त्तमानत्वात् । सूत्रं चेदम्अप्पत्ति च्चिअ वासे सवं उवहिं धुवंति जयणाए । असइए उदगस्स य जहन्नओ पायनिज्जोगो ।। आचार्यादीनां पुनरकालेपि वस्त्रधावने न दोषः । यदुक्तम्आयरिअ-गिलाणाण य मइला मइला पुणोवि धोवंति । मा हु गुरूण अवण्णो लोअंमि अजीरणं इअरे ।।
(पिं०नि० ३४) ततश्च शेषसाधोरकाले ऋतुबद्धकाले कल्प-चोलपट्टादेः कियन्मात्रस्योपधेः प्रक्षालने षड्लघु प्रायश्चित्तम् , सर्वस्य तूपधेरकालधावने प्रायश्चित्तमग्रे भणिष्यते । तथा पुष्पितस्य पनकजीवाश्रितस्योपधेः प्रक्षालने अण्डस्य चटकादिसत्त्वस्योपद्रवे प्रमादादिना विनाशे च षड्गुरु । तथा मात्रकं विना बहिः केवलभूमावेव निरोधे कृते चतुर्लघुकाः । लोहे सूचीनखहरणिकादिके नष्टे चतुर्गुरुकाः ।।२१५।। तथा
A. मूर्खः । B. प्राकृत (= सामान्य) जनागम्यम् । C. (तुला) नि०भा० १८५७ गिरोहं करोति वोसिरति ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226