Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो अर्थादानकारी वाऽवसन्नादिकश्च तत्तदोषानिवृत्तौ न भावलिङ्गार्हः । अयं भावः-स द्रव्यलिङ्गी भवति, न भावलिङ्गमर्हति । भावलिङ्गमपेक्ष्यानवस्थाप्य तृतीयभङ्गवर्ती भवतीत्यर्थः। द्वितीय-चतुर्थभङ्गो पुनर्न सम्भवत इति । क्षेत्रतोऽनवस्थाप्यो यो यत्र क्षेत्रे येन कर्मणा दूष्यते स तद्दोषकरणनिवृत्तोऽपि तत्र क्षेत्रे प्रतिषिद्धो महाव्रतेषु स्थापने निराकृतः । यथार्थादानकारी तत्रैव क्षेत्रे महाव्रतेषु न स्थाप्यते । यतः पूर्वाभ्यासात्तं लोको निमित्तं पृच्छेत् । स च तं निमित्तज्ञानजमृद्धिगौरवं सोढुमक्षमः कदाचित् कथयेत्, ततोऽन्यत्र नीत्वोपस्थाप्यः । उत्तमार्थप्रतिपन्नस्य पुनस्तत्रापि-स्वस्थानेऽपि स्थितस्य महाव्रतारोपः कार्य एव ।।२८६।। उक्तौ लिङ्गक्षेत्रानवस्थाप्यौ । कालतपोऽनवस्थाप्यावाह -
जत्तियमित्तं कालं तवसा उ जहन्नएण छम्मासा ।
संवच्छरमुक्कोसं आसायइ जो जिणाईणं' ।।२८७।। व्याख्या-यो यावन्तं कालं दोषान्नोपरमते तावन्तं कालमनवस्थाप्यः क्रियते । तपसा त्वनवस्थाप्यो द्विधा-आशातनाऽनवस्थाप्यः प्रतिसेवनाऽनवस्थाप्यश्च । तत्र जिनादीनां तीर्थकर-सङ्घ-श्रुता-ऽऽचार्यमहर्द्धिकगणधराणामाशातनं यः कुर्यात्, यथा तीर्थकरैः सर्वोपायकुशलैरपि गृहवासत्यागादिकाऽतिकर्कशा देशना कृता यदि च गृहवासो न श्रेयान् ततः किमिति स्वयं गृहवासे वसन्ति स्म भोगाँश्च भुक्तवन्तः ? इत्येवं तीर्थकृतोऽधिक्षिपेत् सङ्घ च दृष्ट्वाऽवज्ञया वदेत्-हुं हुं दृष्टा मयाऽरण्येऽपि सङ्घाः श्रृगाल-श्वानवृक-चित्रकादीनामिति । श्रुतं चैवमधिक्षिपति यथा - काया वया य तेच्चिय पुणोवि ते च्चिय पमाय-अपमाया । मोक्खस्स देसणाए जोइसजोणीहि किं कज्ज' ?।।
(नि०भा०३३०८, ०क० ४९७९) आचार्यं च जात्यादिभिरधिक्षिपति । महर्द्धिकाश्च गणभृतो गौतमादयः, यो वा यस्मिन् युगे प्रधानभूतस्तान् ऋद्धि-रस-सातगौरवप्रसक्ताः कथका इव लोकाऽऽवर्जनोद्यता इत्यादिवाक्यैरधिक्षिपति (स)आशातनातपोऽनवस्थाप्यः । स जघन्येन षण्मासानुत्कर्षतः संवत्सरं यावत्तपः कुर्वन् कर्त्तव्यः । तावता च तपसा क्षपिताशातनाजनितकर्मत्वात्तदूर्ध्वं महाव्रतेषु स्थाप्यते । प्रतिसेवनानवस्थाप्यश्चोत्तरगाथायां वक्ष्यते ।।२८७।। सा चेयम्
वासं बारस वासा पडिसेवी कारणा उ सब्बोवि ।
थोवं थोवयरं वा वहिज्ज मुंचिज्ज वा सव्वं' ।।२८८।। व्याख्या-प्रतिसेवी प्रतिसेवनानवस्थाप्यः साधर्मिकाऽन्यधार्मिकस्तैन्याभ्यां हस्तातालादिभिश्च भवति । स च जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणि । तदनन्तरं व्रतेषु स्थाप्यते । स चानवस्थाप्यः संहननादिगुणयुक्त एव क्रियते, अन्यस्य तु मूलमेव दीयते। तथा चोक्तम् -

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226