Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 208
________________ जइ - जीयकप्पो विचरंश्च क्वचिद् ग्रामे महिषं पिशितार्थिभिः । विभिद्यमानमद्राक्षीत् ततोऽभूत्तत्र सस्पृहः ।।२।। सोऽव्युच्छिन्नतदाकाङ्को भुक्तो यातो बहिर्भुवम् । सूत्रस्य पौरुषीं चान्त्यां चक्रे सुप्तस्तथा निशि ।।३।। जातस्त्यानद्धिरेषोऽथ गत्वा महिषमण्डलम् । हत्वैकं भुक्तवान् शेषमेत्य सद्मोपरि न्यधात् ।।४।। इदृग् दृष्टः प्रगे स्वप्न इत्यालोचितवान् गुरोः । दिशो विलोकने तच्च मुनिभिर्मासमीक्षितम् ।।५।। सोऽथ स्त्यानर्द्धिमान् ज्ञात्वा लिङ्गपाराश्चिकः कृतः । साधुर्भिक्षां भ्रमन् कोऽपि मोदकान् वीक्ष्य कुत्रचित्।।६।। चिरमैक्षिष्ट गृद्धस्तानलब्ध्वाऽशेत तन्मनाः । जातस्त्यानर्द्धिरुत्थाय गत्वा तद्भवनं निशि ।।७।। भित्त्वा कपाटमत्ति स्म मोदकानुद्धृतानथ । पात्रे भृत्वाश्रये प्राप्तः प्रातः स्वप्नं न्यवेदयत् ।।८।। दृष्टाः पादोनपौरुष्यां ते पात्रप्रतिलेखने । लिङ्गपाराञ्चिकः सोऽपि ततो गुरुभिरादधे ।।९।। एकः साधुर्गतो भिक्षां त्रासितः करिणा ततः । पलायितः कथमपि तस्मिन् रुष्टश्च सुप्तवान् ।।१०।। जातस्त्यानर्द्धिरुत्थाय गत्वा व्यापाद्य तं गजम् । आनीय दन्तमुसले विन्यस्योपाश्रयोपरि ।।११।। पुनः सुप्तः प्रगे स्वप्नं व्याचक्रेऽथ तपोधनैः । दृष्ट्वा दन्तान् स विज्ञातो लिङ्गपाराश्चिकः कृतः ।।१२।। गच्छे महति कस्मिंश्चित् प्रावाजीत् कुम्भकारकः । सुप्तः स्त्यानर्द्धिभाग् रात्रौ मृत्तिकाभ्यासतः स तु।।१३।। २. लड्डुकदृष्टान्तमाहएकः साधुर्भिक्षां हिण्डमानो मोदकभक्तं पश्यति । तच्च सुचिरमवलोकितमवभाषितं च, परं न लब्धम् । ततस्तदलब्ध्वा तदध्यवसायपरिणत एव प्रसुप्तः, रात्रौ तत्र गत्वा गृहस्य कपाटौ भक्त्वा मोदकान् भक्षयति, शेषैमोदकैर्भाजनं भृत्वा समागतः । प्राभातिके आवश्यके विकटयति-ईदृशः स्वप्नो मया दृष्ट इति । ततः प्रभाते मोदकभृतं भाजनं दृष्ट्वा ज्ञातम्, यथा-स्त्यानद्धिरिति । तस्यापि लिङ्गपाराञ्चिकं दत्तम् । शेष पुद्गलाख्यानकवद् वक्तव्यम् ।। ३. दन्तदृष्टान्तमाहअपरः कोऽपि साधुर्गृहस्थभावे मत्तहस्तिना शुण्डामुत्क्षिप्य धावता धाटितः, पलायमानो महता कष्टेन छुट्टितः । एष चूर्ण्यभिप्रायः । निशीथचूर्णिकृता तु– 'एगो साहू गोयरनिग्गतो हत्थिणा पक्खित्तो' इति लिखितम् । एवमुभयथाऽपि तं हस्तिकृतं पराभवं स्मृत्वा स साधुः तस्योपरि प्रद्वेषमापन्नः प्रसुप्तः । उदीर्णस्त्यानर्द्धिश्चोत्थाय पुरकपाटौ भङ्क्त्वा हस्तिशालां गत्वा तस्य हस्तिनो व्यापादनं कृत्वा दन्तानुत्खन्य वसतेर्बहिः स्थापयित्वा भूयोऽपि प्रसुप्तः । प्रभाते च विकटना स्वप्नमालोचयति । साधुभिश्च दिगवलोकनं कुर्वाणैर्गजदन्तौ वीक्षितौ । ततः स्त्यानर्द्धिमान् असौ' इति ज्ञात्वा लिङ्गपाराञ्चिकः कृतः ।। ४. फरुसकदृष्टान्तमाहअपरः' कश्चित् फरुसकः' कुम्भकारः क्वापि गच्छे मुण्डो जातः, प्रव्रजित इत्यर्थः । तस्य रात्रौ प्रसुप्तस्य स्त्यानर्द्धिरुदीर्णा । स च पूर्वं मृत्तिकाच्छेदाभ्यासी ततो मृत्तिकापिण्डानिव समीपप्रसुप्तानां साधूनां शिरांसि च्छेत्तुमारब्धः । तानि च शिरांसि कडेवराणि चैकान्ते अपोज्झति । शेषाः साधवोऽपसृताः । स च भूयोऽपि प्रसुप्तः । ततः प्रभाते ईदृशः स्वप्नो मया दृष्टः' इति विकटना कृता । प्रभाते च साधूनां शिरांसि कडेवराणि च पृथग्भूतानि दृष्ट्वा ज्ञातम् , यथा-स्त्यानर्द्धिरिति । लिङ्गपाराञ्चिकं दत्तम् ।।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226