Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो व्याख्या-समनुज्ञासमुद्देशयोः अङ्गश्रुतस्कन्धानामनुज्ञासमुद्देशयोर्दिवसे काले अशुद्धे सति । योगप्रवेशानन्तरं दिनसमेषु दिनप्रमाणेषु कालेष्वसत्सु । वमने वान्तौ । निशि व्युत्सर्जने अकालसञ्ज्ञायाम् । वितथमनुष्ठानकरणे च अन्यथा सतोऽनुष्ठानस्यान्यथाकरणे च । जोगेसु दिवसवुड्डी' इत्यग्रेतनगाथाऽवयवसम्बन्धादेतेषु सर्वेष्वपि पदेषु प्रत्येकयोगमध्ये दिवसवृद्धिः स्यात् । तथाऽतिरिक्तमधिकीभूतं उत्संघट्टितं संघट्टकात् स्फिटितम् एवंविधं यद्भक्तं तस्य परिष्ठापने । स्थण्डिलानाम् उच्चारप्रस्रवणभूमिमात्रकादीनां कालमण्डलभूमीनां च अप्रतिलेखने । कलहे रोषावेशविसंस्थुलभाषणादिरूपे साध्वादिभिः सह कृते । विकथासु विरुद्धासु स्त्र्यादिसम्बद्धासु कथासु च कृतासु प्रत्येकं योगमध्ये दिनवृद्धिर्भवति । शेषस्खलितैः शेषैरुक्तेभ्यो व्यतिरिक्तैः स्खलितैरविधिरूपपदैरुत्कृष्टमध्यमजघन्यलक्षणैस्विभिः पञ्चभिरादिशब्दात् सप्तभिर्वा दिवसवृद्धिर्भवति। त्रिभिर्विकृतिमहुलिकैर्निरन्तरैर्योगमध्ये दिवसवृद्धिर्भवति । इतरैः पुनर्महुलिकैः पञ्चभिः सप्तभिर्वा ।।३०१-३०२-३०३ ।। अत्र श्रीचन्द्रसूरिसमुद्धृत १४५० ग्रन्थमितसामाचार्यन्तरगतप्रायश्चित्तप्रकारान्तरदर्शनायाह
उस्संघट्टिअकम्मिअभोगे लेवाडसंनिही वमणे । थंडिलअपेह संखड कोहाइ महब्बयइआरे ।।३०४।। परपरिवाए पेसुन्न आल पुत्थाइथुक्कभूपडणे । रयहरचोले उग्गहफिडिए उवविठ्ठपडिकमणे ।।३०५।। पडिकमणकालभोअण-उद्देसगमाइभूमिओहीणं ।।
गुरुग अपेहे एगेगं आवस्सिनिसीहिआभंगे ।।३०६ ।। व्याख्या-योगमध्ये उत्संघट्टितभक्तादिपरिभोगे । आधाकर्मिकभक्तादिपरिभोगे । लेपकृद् द्रव्यसन्निधौ । वमने । स्थण्डिलानामप्रतिलेखने । सङ्घडे कलहे । क्रोधादौ तथाविधक्रोधे, आदिशब्दात्तथाविधमानमायालोभेषु । महाव्रतातिचारे पञ्चमहाव्रतरात्रिभोजनविरमणरूपमूलगुणातिचारे । परपरिवादे परेषां दूषणभाषणेऽपि । पैशुन्ये पिशुनत्वे प्रच्छन्नं परदोषप्रकटने । आलमभ्याख्यानं तत्पदाने । पुत्थाइथुक्कभूपडणे' इति पुस्तकादेः पुस्तकपट्टिकादेर्ज्ञानोपकरणस्य थुक्केन निष्ठीवनेन भरणे भूपतने प्रमादादिना भूमौ पातने, उपलक्षणत्वात् कक्षाप्रक्षेपे दुर्गन्धहस्तेन ग्रहणे च । रजोहरणे चोलपट्टे चावग्रहात् स्फिटितेऽपगते । उपविष्टप्रतिक्रमणे उपविष्टेन प्रतिक्रमणकरणे । प्रतिक्रमणकालभोजनोद्देशकादिभूमीनामप्रमार्जने उपधेरप्रतिलेखने च गुरुकाः । एतेषु सर्वेष्वपि गाथात्रयोपात्तेष्वपराधपदेषु चत्वारो गुरुकाः प्रायश्चित्तं योगमध्येऽपि भवतीत्यर्थः । तथा आवश्यकीनैषेधिकीभङ्गे पञ्चकं पञ्चकाख्यं प्रायश्चित्तं भवति ।।३०४-३०५-३०६।। अथ शास्त्रसमाप्त्यर्थमुपसंहारगाथामाह

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226