Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ-जीयकप्पो
इअ जीअनिसीहाई अणुसारेणं जईण पच्छित्तं । लेसेणं सपरट्ठा भणिअं सोहंतु गीअत्था । । ३०७।। व्याख्या - इति एवं प्रदर्शितप्रकारेण । जीतनिशीथाद्यनुसारेण । जीतं जीतकल्पः निशीथं कल्पाध्ययनम्, आदिशब्दात् कल्पव्यवहाराध्ययनसामाचारीपरिग्रहः । एतेषां महाग्रन्थानामनुसारेण अनुगमनेन, यथा एतेषु महाग्रन्थेषु प्रायश्चित्तं प्रतिपादितं तथैवात्रापीत्यर्थः । यतीनां प्रायश्चित्तं लेशेन अंशेन स्वपरार्थं स्वपरहितनिमित्तं भणितं प्रतिपादितम् । इदं च यद्यपि परमागमानुसारेणैव भणितं तथापि गीतार्थाः श्रीनिशीथादिछेदग्रन्थधारिणः शोधयन्तु अपनयन्त्वत्र दूषणानि प्रमादादिजनितानि । अत्र च जीतकल्पसूत्रे पुरातनजीतकल्पसूत्रगता एव तद्रूपाः कियत्यो गाथाः सन्ति । कियत्यः पुनः श्रीनिशीथादिग्रन्थानुगतास्तद्रूपा एव । कियत्यस्तु श्रीनिशीथादिमहाग्रन्थगतार्थसार्थलेशलेशग्रहणेन ग्रथिताः । कतिपयाः पुनः सुखप्रतिपत्त्यर्थं पुरातनजीतकल्पगतमुकुलितार्थविस्तारणेन विरचिताः, स्वल्पाः पुनः सुविहितजनाचीर्णजीतानुगतसामाचारीगताः । एतासां च गाथानां विवरणमपि प्रायस्तद्रूपमेव तत्तद्ग्रन्थगतमत्र लिखितमस्तीत्यवगन्तव्यम् । इदं चैवंविधं जीतकल्पसूत्रं कालानुभावतः प्रायो निराधारपारमेश्वरप्रवचनाधारभूतैः निर्मलसंयमकमलाहृदयालङ्कारहारकल्पैः सकलसुविहित— व्रातशिरोमणिभिः विश्वविख्यात श्रीतपामहागच्छगगनाङ्गणनभोमणिभिः परमगुरु श्रीसोमप्रभसूरिभिः पवित्रचारित्रैकतानमानसैः मन्दतरमेधाधारणाधिगमविनेयजनानुग्रहार्थमेव अमुद्रसकलपरमागमसमुद्रमहाप्रयत्नेनावगाह्याऽमृतकल्पं प्रकटमकारीति ।। ३०७ ।।
इति यतिजीतकल्पवृत्तिर्जगत्प्रतीत श्रीतपागच्छाधिराजसुविहितशिरोमणि भट्टारकप्रभुश्रीदेवसुन्दरसूरिशिष्यश्रीसाधुरत्नसूरिकृता ।।
वर्षे तर्कशराब्धिचन्द्रगणिते १४५६ श्रीविक्रमार्काद् गते गुवदिशवशाद्विलोक्य सकलाः कल्पादिशास्त्रावली: । सूरि श्रीयुतदेवसुन्दरगुरोः शिष्याग्रणीरातनो
देतां श्रीयतिजीतकल्पविवृतिं श्रीसाधुरत्नाह्वयः । । ( शार्दूलविक्रीडितम् ) प्राज्ञैरुद्देशतो वृत्तौ ग्रन्थमानं विनिश्चितम् ।
सहस्राः पञ्च श्लोकानां शतैः सप्तभिरन्वितः (५७००) ।। ( अनुष्टुप् )

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226